Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
टीकात्रयोपेता त्यसमवताः, तथापि आदित्यसंयुक्तकालस्य पिण्डसंयोगस्तदुपनायकत्वात् । पिण्डे परत्वादिहेतुस्तथा । यद्यपि परिमाणदण्डादिसंयोगा देशविशेषसमवेताः, तथापि दिक्संयोगो देशपिण्डाभ्यामविशिष्ट इति पिण्डदेशसंयोगोपनायकत्वेन परत्वादिहेतुः । तदुक्तम्-'क्रियोपनायकः कालः संयोगोपनायकत्वात्' इति ।
[वा. टी.] परेति । अयं पर इति व्यवहारे ययवहार्यव्यावर्तकत्वेन निमित्तं तत्परत्वमिति । व्यवहार्यनिवृत्तये विशेषणतयेति । एवमपरत्वस्यापि । घट इति । संयोगसजातीयत्वेन सिद्धसाधनतापरिहाराय एकद्रव्येति । एक द्रव्यमाश्रयत्वेन यस्येति रूपसजातीयत्वेन सिद्धसाधनतापरिहाराय बुद्धिजेति । ईशबुद्धिजेन सिद्धसाधनतापरिहाराय अस्मदादीति । जातीयपदन्तु नार्थवत् । सामान्येऽतिव्याप्तिपरिहाराय समवायीति । दिश्यतिव्याप्तिपरिहाराय विशेषगुणेति । आकाशनिवृत्तये अनेकेति । सुखादिना दृष्टान्तलाभः । सिद्धसाधनतापरिहाराय संयोगेति । रूपादिनिवृत्तये बुद्धिजेति । ईशबुद्धिजे तस्मिन् अतिव्याप्तिपरिहाराय अस्मदादीति ।
(बुद्धेर्लक्षणं तद्विभागश्च) अर्थावग्रहो बुद्धिः । सा द्वेधा-नित्यानित्यभेदात् । पूर्वी भगवतो महेश्वरस्य । सा परीक्षिता आत्मप्रकरणे । उत्तरा अनीशानां मानसप्रत्यक्षसिद्धा।
(अविद्यात्मिका बुद्धिः) सा द्वेधा-अविद्याविद्याभेदात् । बाँधिता अविद्या । सा द्वेधा-निश्चयानिश्चयभेदात् । तत्र पूर्वो विपर्ययः । तत्र प्रमाणम्-विवादास्पदं रजतधीविषयः, रजतेच्छुप्रवृत्तिविषयत्वात् , हगतरजतवत् । उत्तरः संशयः।। इदम् आहोखिन्नैवम् इति व्यवहारो व्यवहार्यज्ञानपूर्वकः, व्यवहारत्वात्, सम्प्रतिपन्नवदिति तत्र प्रमाणम् । अनध्यवसायस्येहान्तर्भावः, वनस्य विपर्यये ।
[ब. टी.] अर्थेति। यद्यप्यर्थावग्रहो बुद्धिः,तदा पर्यायत्वान्न लक्षणवाक्यता, तथाप्यन्याप्रवणार्थनिष्ठविषयताप्रतियोगित्वं बुद्धित्वम्, अन्यानधीनविषयत्वमिति यावत् । द्रव्यादयस्तु परतत्रविषयत्ववन्त इति नातिव्याप्तिः। यद्वा अर्थावग्रह इत्यनेन ज्ञानपदवाच्यत्वं लक्ष्यतावच्छेदकत्वमुक्तम् । बुद्धिरित्यनेन बुद्धित्वं लक्षणम् , अर्थपदन्तु ज्ञानातिरिक्तार्थबोधनपरम् । बाधितेति । बाधितार्थत्यर्थः। अनिश्चयः संशयः। पूर्वोऽबाधितार्थों
१ पदमिदं नास्ति ट पुस्तके. २ इत आरभ्य तदुक्तमित्यतः पूर्वो भागो नास्ति ट पुस्तके. ३ पदमिदं नास्ति घ पुस्तके. ४ विद्याविद्येति क, ग, घ, विद्येत्यारभ्य सा द्वेधा इत्यन्तं नास्ति ख पुस्तके. ५ बाधिता धीरिति क. ६ विवादाध्यासितमिति ग, घ, विवादपदं रजतधीपदमिति क, ख. ७ रजतादिष्विति ख, . ग, घ. सत्यरजतेति ख, मु. ९ नेदमिति ग, घ. १०व्यवहारवदिति क. ११ इच्छादयस्त्विति च. १२ इत्यर्थ इत्यधिकं च पुस्तके.

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120