Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 71
________________ [गुण प्रमाणमञ्जरी [ब. टी.] परेति । ईश्वरज्ञानादावतिव्याप्तिभङ्गाय विशेषणतयेति । व्यवहार्यसमवायितयेत्यर्थः। द्वयादिव्यवहारकारणे द्वित्वादावतिव्याप्तिवारणाय परेति । परं प्रति परत्वं न कारणम् इत्यसम्भववारणाय व्यवहार इति । व्यवहारोऽत्र ज्ञानम् । शब्दादिप्रयोगरूपस्य तस्य विषयाजन्यत्वात् । यद्वा निमित्तं प्रयोजकम् । अत एव नातीन्द्रियपरत्वादावव्याप्तिः । यद्वा विशेषणतयाऽसाधारणतयेत्यर्थः । घट इति । रूपादिनार्थान्तरवारणाय बुद्धिजेति । ईश्वरबुद्धिजेन तेनैवार्थान्तरवारणाय अस्मदादीति । द्वित्वा. दिनार्थान्तरवारणाय एकद्रव्येति । ईश्वरबुद्धिजनितपरत्वादिकसाध्ये विषये वेशयितुं(?) जातीयेति । काले व्यभिचारवारणाय विशेषेति । आकाशे तद्वारणाय अनेकेति । कालादौ व्यभिचारवारणाय समवायीति । आत्मन्यस्मदादिबुद्धिजन्यसुखादिमत्त्वेन साध्यसिद्धिः । दिक्कालजन्यत्वेऽनुमानमाह-विप्रतिपन्नमिति । अदृष्टवदात्मसंयोगेनार्थान्तरवारणाय असमवायीति । यथादृष्टवदात्मसंयोगो नासमवायिकारणं तथा प्रपश्चितमन्यत्र । उद्देश्यसिद्धये संयोगेति । विप्रतिपन्नत्वं जातिविशेषवैशिष्ट्यम् , न तु दिक्कृतभिन्नत्वम् , प्रतियोग्यप्रसिद्धः । परिमाणे व्यभिचारवारणाय बुद्धिजेति । तथापि तत्रैव व्यभिचारवारणाय अस्मदादीति । यद्यप्यदृष्टद्वारास्मदादिबुद्धिजत्वमस्ति, तथापि अदृष्टाद्वारकेति विशेषणीयम् । द्वित्वादी व्यभिचारवारणाय एकद्रव्येति । एकमात्रनिष्ठत्वादित्यर्थः । दिकालयोस्तादृशासमवायिकारणकत्वेन करणत्वं सिद्धमित्यभिप्रायेणाह-परिशेषादिति । यथाकाशादिसंयोगो नासमवायिकारणं परत्वापरत्वयोः, तथा विशदमन्यत्र। [अ. टी.] परापरव्यवहारकारणेश्वरप्रयत्नादावतिव्याप्तिनिरासार्थ विशेषणतयेत्युक्तम् । विशेषणतया व्यवहार्यनिमित॑तयेत्यर्थः । अस्मदादिबुद्धिजन्यं यदेकस्मिन्नेव वर्तते तज्जातीयवान् घट इति प्रतिज्ञा । घटस्यैकद्रव्यवृत्तिरूपादिजातीयत्वेन सिद्धसाधनता स्यादत उक्तम् बुद्धिजेति। तथापीश्वरबुद्धिजरूपादिमत्त्वेनोक्तदोषः स्यादतः अस्मदादिग्रहणम् । कालादौ व्यभिचारवारणाय विशेषगुणपदम् । आकाशे तन्निरासाय अनेकपदम् । आत्मन्यस्मदादिबुद्धिजं सुखादि, तथापि तयोदिक्कालजत्वे किं मानमित्याह-विप्रतिपन्नमिति । परत्वादेरसमवायिकारणान्तरानङ्गीकाराद्वाधव्युदासार्थं संयोगपदम् । एकद्रव्ये रूपादौ व्यभिचारवारणार्य अस्मदादिबुद्धिजग्रहणम् । सुखादिकमात्ममनस्संयोगासमवायिकारणकम् । तत्र द्रव्यान्तरसंयोगस्य परत्वादिना सहान्वयव्यतिरेकयोरभावेन दिक्कालसंयोगस्य घ तद्भावात्परिशेषात् स एव कारणमित्याह-पारिशेष्यादिति । पिण्डः शरीरं, दिवसमासादिना परत्वापरत्वे कालसंयोगपूर्वके । यद्यपि दिवसादिशब्दवाच्याः परिस्पन्दा आदि वारणायेति च.२ इत आरभ्य पतिद्वयं नास्ति छ पुस्तके. ३ भिन्नत्वे इति च. ४ तत्तु इति छ. ५ भिन्नभिन्नत्वमिति छ. ६ आदीति नास्ति च. ७ गुणतयेति झ. निष्ठतयेति ज, ट. ९ द्रव्ये वर्तत इति ज, ट.१० जातीयवत्वेनेति ज, ट. ११ गुण इति नास्ति ट. १२ जन्यत्व इति ज.१३ रूपस्वादाविति ट. १४ वारणार्थमिति ज, ट. १५ अभाबादिति ज, ट. १६ अत्र झ पुस्तके पतयो व्यत्यस्ता

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120