Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 69
________________ ५६ प्रमाणमञ्जरी गुणसत्तावदिति । विभागजविभागसिद्धिस्तु परिशेषात् । विभागत्वं विभागासमवायिकारणवृत्ति, विभागवृत्तिजातित्वात्, सत्तावदिति मानम् । [ब. टी.] संयोगेति । ध्वंसेऽतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिभङ्गाय विरोध्यन्तम् । विभागविरोधिनि संयोगेऽतिव्याप्तिवारणाय संयोगेति । अदृष्टादापतिव्याप्तिवारणायासाधारणविरोधित्वमुक्तम् । ननु यस्मिन् काले विभागस्तस्मिन् काले संयोगः, एवं दैशिकमपि सामानाधिकरण्यं विनश्यदवस्थसंयोगेन विभागस्यास्तीति चेत्न; निवर्त्यनिवर्त्तकभावलक्षणविरोधस्योक्तत्वात् । न च गुणपदवैयर्थ्यम् , संयोगध्वंसस्य संयोगनिवृत्तिरूपतया संयोगनिवर्तकत्वाभावादेवातिप्रसङ्गाभावादिति वाच्यम् । गुणपदस्थासाधारणगुणपरतयादृष्टोदावतिव्याप्तिवारकत्वात् । यद्वा विभागत्वजातौ लक्षणं बोध्यम् । आकाश इति । संयोगेनार्थान्तरवारणाय संयोगातिरिक्तेति । शब्दादिनार्थान्तरवारणाय कर्मजेति । अदृष्टद्वारा तीर्थगमनादिजनितशब्दत्वेनार्थान्तरवारणायादृष्टाद्वारकत्वं विशेषणं बोध्यम् । गुणत्वेन विभागसिध्यर्थ गुणपदम् । शरीरे कर्मजगुणो वेगः, कालादीनां पक्षसमत्वात् । विप्रतिपन्नमिति । आकाशातिरिक्तमित्यर्थः । विभागत्वमिति । विभागजविभागवृत्तित्वेनार्थान्तरवारणाय कर्मेति । उद्देश्यसिध्यर्थम् एकानेकेति । यदप्युभयकर्मजन्यं तदप्येककर्मजन्यमित्यर्थान्तरमिति चेत्-न; एकमात्रेत्युक्ते यदप्येकेन कर्मणा जन्यं तदपि मूर्तकर्मणा जन्यत एवेति बाध इति तद्वारणाय उद्देश्यसिद्धये वा समवायीति । तादृशसंयोगवृत्तित्वेन दृष्टान्तसिद्धिः । विभागजन्यतावच्छेदकजातौ व्यभिचारवारणाय गुणत्वव्याप्यजात्यव्याप्यत्वं विशेषणं बोध्यम् । एवमुत्तरत्रापि क्रियाजन्यविभागवृत्तिजातौ व्यभिचारवारणाय गुणत्वव्याप्यजात्यव्याप्यत्वं विशेषणं बोध्यम् । विभागत्वमित्यपि क्रियासमवायिकारणकभिन्नवृत्तित्वं साध्यम् । तीन्यदेवासमवायिकारणमित्यत आह-विभागजविभागसिद्धिस्त्विति । परिशेषात् कर्माजन्यविभागस्य विभागातिरिक्तासमवायिकारणाजन्यत्वादित्यर्थः । अन्यथा कथं वंशदलयोः परस्परविभागे तयोराकाशेन विभागस्स्यात् । क्रियाया वंशदलद्वयविभागजननेनैवोपक्षीणत्वात् । कर्मणः सजातीयकार्यजनने विरम्यव्यापाराभावाच विशेषतोऽनुमानमाह-विभागत्वमिति । कर्मजन्यतावच्छेदकभिन्नविभागवृत्तिजातित्वादित्यर्थः । विभागजशब्दवृत्तित्वेन दृष्टान्तसिद्धिः । असमवायिपदमुद्देश्यसिद्धये । केचित्तु धनुर्गुणविभागजन्यबाणकर्मणि सत्तासचात् दृष्टान्तसिद्धिरित्याहुः, तन्नः कर्मणो विभागासमवायिकारणकत्वस्य राद्धान्तविरुद्धत्वात् , अयौक्तिकत्वाचेति दिक् । किन्तु नोदना तत्रासमवायिकारणमिति पर्यालोचनीयम् । अपरविशेषणप्रयोजनं स्फुटम् । १तु इति नास्ति क, ग, घ, मु पुस्तकेषु. २ चानुमानमिति क, प्रमाणमिति मु. ३ असाधारणायासाधारणेति च. ४ निव]ति नास्ति च पुस्तके. ५ अदृष्टाधिष्ठानादाविति च. ६ संयोगेत्यारभ्य पशिद्वयं नास्ति छ पुस्तके. ७ समतेति च. ८ पूर्वकर्मणेति च. ९ विभागमात्रेति च. १०, ११ पदमिदं मास्ति च पुस्तके. १२ सत्त्वादिति नास्ति च पुस्तके.

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120