Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प
प्रमाणमञ्जरी
[गुणपरिशेषात् 'संयोगसिद्धिः। स त्रिविधः-अन्यतरकर्मजोभयकर्मजसंयोगजभेदात् । तत्रोभयं प्रसिद्धम् । तृतीये प्रमाणम्-संयोगत्वं संयोगासमवायिकारणवृत्ति, संयोगवृत्तिजातित्वात्, सत्तावदिति ।: विप्रतिपन्ना आत्मादयः, आकाशेन न संयुज्यन्ते, सर्वगतत्वात्, आकाशवदिति अजसंयोगासिद्धिः । अयावहव्यभावित्वं तस्य प्रसिद्धम् । [ब. टी.] गुणत्वावान्तरेति। संयोगरूपान्यतरत्वादिना संयोगसजातीयरूपादावतिव्याप्तिनिरासाय जातित्वमुक्तम् । रूपासमवायिकारणरूपसजातीयेऽतिव्याप्तिवारणाय द्रव्येति । तनिमित्तकारणासजातीये ज्ञानादावतिव्याप्तिवारणाय असमवायीति । संयोगपदमिति । घटादिपदेऑन्तरवारणाय संयोगेति । संयोगरूपेऽर्थे बाधवारणाय पदमिति । संयोगे त्वस्याखण्डत्वात्पदत्वम् । यद्वा तदन्तर्गता प्रकृतिः पक्षः । सद्वस्तु वाच्यं यस्येति साध्यार्थः । विभागाभावादिवाचकत्वेनार्थान्तरवारणाय सदिति । यद्वा सत्ताजातिरहित (?) सिध्यर्थान्तरवारणाय सदिति । न चाभावपदे व्यभिचारः, उभयवादिसिद्धासद्वाचकभिन्नवाचकत्वस्य हेतुत्वात् । यद्वा वाचकत्वमात्रं साध्यम् , सत्पदन्तु पक्षधर्मताबललभ्यार्थकथनाय । स्खलक्षणपदेन घटादिपदमुच्यते । परिशेषादिति । अन्यद्वाच्यं न सम्भवति, यद्वाच्यं संयोग इत्यर्थः। अन्ये तु स्वस्य संयोगपदस्य यल्लक्षणं यत्पदं इदं संयोगपदमिति वाचकशब्दः तद्वदित्यर्थ इत्याहुः । संयोगत्वमिति। सकारणवृत्तित्वेऽथान्तरम्, असमवायिकारणवृत्तित्वेऽपि तथेत्यत आहसंयोगेति । संयोगकारणकवृत्तित्वसाधने दिक्संयोगादृष्टवदात्मसंयोगजन्यसंयोगवृत्तिस्वेनार्थान्तरमतः असमवायीति । स्नेहत्वे व्यभिचारभङ्गाय संयोगेति । अन्यतरकर्मजन्यतावच्छेदकजातौ व्यभिचारवारणाय जातिपदं गुणत्वव्याप्याव्याप्यजातिपरम् । घटादिवृतित्वेन सत्तायां साध्यसिद्धिः। संयोगसमवेतत्वादिति क्वचित्पाठस्समीचीन एव, अन्यथा जातिपदार्थान्तर्गतानेकवृत्तित्वादिभागस्य वैयापत्तेः । नन्वजसंयोगस्य सत्त्वात् कथं संयोगत्रैविध्यमत आह-विप्रतिपन्ना इति । आकाशनिरूपितसंयोगवन्तो न भवन्तीति साध्यार्थः । घटादिसंयोगैवत्वेन बाधवारणाय आकाशेति । आकाशनिरूपितसुखादिमत्त्वेन बाधवारणाय संयोगेति । (न संयुज्यन्त इति ?) आकाशजनितज्ञानजन्यं सुखम् , आकाशजनितं द्वित्वमात्मनीति प्रतीतावाकाशस्य निरूपकत्वात् । वस्तुतस्तु नित्यसंयोगसिद्धौ तुल्यन्यायेन विभागस्यापि तादृशस्य सिद्धिप्रसक्त्या एकदा विरुद्धद्वयसमावेशापत्तिरेव दोषः। . १ पदमिदं नास्ति क, ग, घ पुस्तकेषु. २ एतदनन्तरम् -सत्तायां गुणत्वेन च सजातीयरूपादावतिव्याप्तिवारणाय गुणत्वावान्तरेति इति पाठश्च पुस्तके. ३ कारणकेति छ. ४ विभागो भावादिरपीति छ. ५ संयोगस्येति च. ६ संख्याकेति छ. ७ वृत्तित्वेनेति छ. ८ कारणकेति झ. ९ वारणायेति च. १० वृत्तित्वेन नेति छ. ११ संयोगसत्वादिति च. १२ संयोगवत्वे बाधेति छ. १३ इत आरभ्य विभागनिरूपणसमाप्तिपर्यन्तं झ पुस्तके पङ्गयो व्यत्यस्ताः त्रुटिताश्च वर्तन्ते । च पुस्तके सत्यप्यशुद्धिबाहुल्ये कथचित्पङ्गयस्सनिवेशिताः.

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120