Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 66
________________ निरूपणम् ] टीकात्रयोपेता वारणाय पृथक्त्वेति । घटपटनिष्ठद्विपृथक्त्वाकाशान्यतरत्वे व्यभिचारवारणाय जातित्वादिति । पृथक्त्वसमवेतधर्मत्वादित्यर्थः । न च द्विपृथक्त्वे व्यभिचारः, गुणत्वव्याप्याव्याप्यपृथक्त्ववृत्तिजातेरुक्तत्वात् । सत्तायां तादृशरूपादिवृत्तित्वेन साध्यसिद्धिः। द्विपृथक्त्वत्रिपृथक्त्वेति विशेषणे द्विपृथक्त्वत्रिपृथक्त्वयोर्व्यभिचारवारणायैतदुभयवृत्तिपरे । द्विपृथक्त्वत्रिपृथक्त्वान्यतरत्वे व्यभिचारवारणाय जातित्वमुक्तम्। [अ. टी.] रूपादिसजातीये व्यभिचारवारणार्थं दिग्गतेत्युक्तम् । तथापि दिक्कालयोरेकैकवृत्तिपरिमाणसजातीयपरिमाणेऽतिव्याप्तिरत उक्तम् दिक्कालगतेति । उभयगतत्वमेकव्यक्तेर्विवक्षितम् , तर्हि दिक्कालगतद्वित्वसंख्यया सजातीयसंख्यायामतिव्याप्तिरत उक्तम् संख्यातिरिक्तेति । अत्यन्तपदेन सत्तागुणत्वाभ्यां सजातीयद्रव्यगुणकर्मव्यवच्छेदः । कालो गुणवानित्युक्ते परिमाणवत्त्वेन सिद्धसाधनता, अत उक्तं दिग्गतेति । द्वित्वसंख्या तथा भवतीति तद्वत्त्वेनोक्तदोषव्युदासाथ संख्यातिरिक्तपदम् । अयावद्रव्यभाविद्विपृथक्त्वसिद्धिरित्यर्थः । अस्याप्यपेक्षाबुद्धिजन्यत्वं द्वित्ववदभिप्रेतं, तत्साधयति-पृथक्त्वसामान्यमिति । ईश्वरबुद्धिजवृत्तित्वेन सिद्धसाधनताव्युदासार्थम् अस्मदादिपदम् । घटादिगतद्विपृथक्त्वस्यास्मदादिबुद्धिजत्वमपि द्वित्ववदनेन सिद्धम् । इदानीं यावद्रव्यभाविपृथक्त्वं साधयति-तत्सामान्यमिति। अपेक्षाबुद्धिलक्षणगुणपूर्वद्विपृथक्त्वादिवृत्तित्वेन सिद्धसाधनताव्युदासाथै कारणपदम् । कारणञ्च समवायि विवक्षितम् । नित्यगतैकपृथक्त्वस्य कारणगुणपूर्वकत्वाभावेऽपि न बाधः, घटादिगतैकपृथक्त्वस्यात्र विवक्षितत्वात् । [वा. टी. ] संख्येति । कालगतं पृथक्त्वमित्युक्ते कालघटसंयोगेऽतिव्याप्तिस्तदर्थ दिगिति । दिग्वृत्तित्वे सति कालवृत्तीत्यर्थः । द्वित्वेऽतिव्याप्तिपरिहाराय संख्यातिरिक्तति । घटादिपृथक्त्वेडव्याप्तिनिरासाय सजातीयेति । घटेऽतिव्याप्तिपरिहाराय अत्यन्तेति । गुणत्वावान्तरजात्यर्थः । काल इति । द्वित्वेन सिद्धसाधनतापरिहाराय संख्यातिरिक्तति । दृष्टान्ते संयोगेन सिद्धिः । पक्ष चाविभुत्वेन तस्यानुपपत्तौ द्विपृथक्त्वसिद्धिः । ईशबुद्धिजन्यवृत्तित्वेन सिद्धसाधनतापरिहाराय अस्मदादीति । रूपत्वेऽतिव्याप्तिपरिहाराय पृथक्त्वेति । दृष्टान्ते द्वित्वादिवृत्तित्वेन सिद्धिः । तत्सामान्यमिति । अपेक्षाबुद्धिगुणपूर्वद्विपृथक्त्ववृत्तित्वेन सिद्धसाधनतापरिहाराय कारणेति । कारणश्च समवायिकारणम् , तस्य गुण आरम्भकत्वेन यस्य तत्तथेति । (संयोगलक्षणं, तत्र प्रमाणम् , तद्विभागश्च ) गुणत्वावान्तरजात्या द्रव्यासमवायिकारणसजातीयः संयोगः । तत्र प्रमाणम्-संयोगपदं सद्वाच्यम्, वाचकत्वात् , खलक्षणपदवदिति निरासायेति च. २ द्विपृथक्त्वत्रिपृथक्त्वेति । पृथक्त्वान्यतरत्वे व्यभिचारवारणाय जातित्व. मुक्तम् । द्विपृथक्त्वे व्यभिचारवारणाय त्रिपृथक्स्वेति । त्रिपृथक्त्वे व्यभिचारवारणाय द्विपृथक्त्वेति इति च. ३ दिक्कालेति ज, ट. ४ सत्त्वेति ट. ५ कर्मविशेषेति ज, ट. ६ ईश्वरेत्यारभ्य अपेक्षेत्यन्तो भागो नास्ति ट पुस्तके.

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120