Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
टीकात्रयोपेता वारणाय अतिरिक्तान्तम् । वाधवारणाय अण्विति । अणुद्रव्येऽतिरिक्तमणुपरिमाणं भवत्येवेत्यत उक्तम् अतिरिक्तविशेषणम् परिमाणेति । रूपादिनार्थान्तरभङ्गायातिरिक्तत्वविशेष्यं परिमाणेति । यन्मते परमाणोन हखत्वं तन्मते व्यभिचारभङ्गाय कार्येति। द्रव्येतरमिन् व्यभिचारभङ्गाय द्रव्यत्वादिति। घेट इति । कुतश्चिदंतिरिक्तं परिमाणं महत्त्वमप्यत उक्तम् महत्त्वेति । महत्त्वेनार्थान्तरवारणाय व्यतिरिक्तान्तम् । रूपादिनार्थान्तरवारणाय परिमाणेति । यन्मते आकाशे महत्त्वातिरिक्तं परिमाणं नास्ति तन्मते कार्येति । सन्दिग्धव्यभिचारवारणाय वा तत् । रूपादौ व्यभिचारवारणाय त्वादन्तम् । - [अ. टी.] सजातीयपरिमाणमित्युक्ते द्रव्यादौ व्यभिचारस्स्यादतो गुणत्वावान्तरजात्येत्युक्तम् । एवमपि संयोगादौ व्यभिचारोऽत उक्तम् यावद्रव्यभावीति । घटरूपादिसजातीयरूपान्तरव्यवच्छेदार्थम् आत्मगतेति पदम् । तथाप्यात्मगतैकत्वे व्यभिचारोऽतः अप्रत्यक्षपदम् । तर्हि तद्गतपृथक्त्वेऽतिव्याप्तिः स्यादतः पृथक्त्वान्येत्युक्तम् । पृथक्त्वान्याप्रत्यक्षात्मगतयावद्व्यभाविसजातीयं परिमाणमित्युक्तेऽपि गुणत्वेनाभिमतात्मगतपरिमाणेन सह सत्तया सजातीयद्रव्यादौ व्यभिचारस्स्यादतो गुणत्वजात्येत्युक्तम् । गुणत्वजात्या सजातीयव्यवच्छेदार्थम् अवान्तरपदम् । आत्मनि तादृग्गुणसिद्धौ तत्सजातीयं परिमाणं सिध्येत् । तत्सिद्धिरेव कुत इत्यत आह-आत्मेति । आत्मनो बुध्यादिगुणवत्त्वस्य सिद्धत्वात् यावद्राव्यभाविपदम् । एकत्वैकपृथक्त्वाभ्यां सिद्धसाधनताव्युदासाय पृथक्त्वान्याप्रत्यक्षेत्युक्तम् । दिशि यथोक्तो गुण एकत्वम् । आत्मनि पृथक्त्वान्योऽप्रत्यक्षो यावद्रव्यभावी गुणः परिमाणमेव । इदानीं गुणत्वावान्तरजात्या तत्सजातीयमन्यत्रापि साधयति-सर्वमिति । आत्मातिरिक्तं सर्वमित्यर्थः । एकदेशिमतमपाकरोति-यणुक इत्यादिना । परमाणुषु मनसि च व्यभिचारवारणाय कार्यत्वविशेषणम् । आकाशादिषु महत्त्वातिरिक्तपरिमाणाभावात् कार्येति पदम् । कर्मादौ व्यभिचारवारणाय द्रव्यपदम् । . [ वा. टी.] गुणत्वेति । रूपेऽतिव्याप्तिपरिहाराय आत्मेति । आत्मैकत्वेऽतिव्याप्तिपरिहाराय अप्रत्यक्षेति । आत्मैकपृथक्त्वेऽतिव्याप्तिपरिहाराय पृथक्त्वान्येति । संयोगेऽतिव्याप्तिपरिहाराय यावद्रव्येति । घटादिपरिमाणेऽव्याप्तिनिरासाय सजातीयेति । सजातीयासजातीये घटेऽतिव्याप्तिपरिहाराय अवान्तरेति । रूपेऽतिव्याप्तिपरिहाराय गुणत्वेति । ननु घटादिखरूपस्यैव परिमाणत्वादसम्भवमिदं लक्षणमिति चेन्न; खरूपोपलब्धावपि हस्तवितस्त्यादिविशेषानुपलम्भात् ।। अतोऽतिरिक्तं वाच्यम् । अस्ति च तत्त्वे प्रमाणमित्याह-आत्मेति । संयोगेन सिद्धसाधनतापरि
वारणायेति च. २ द्रव्यत्वमिति छ. ३, ४ वारणायेति च. ५ घट इति नास्ति च पुस्तके. कुतश्चिव्यतीति च. ७ भङ्गायेति च. ८ स्यादत इति ज. ९ गतपदमिति ज, ट.. १० भास्मैकत्व इति ज. ११ स्यादतोऽप्रत्यक्षेत्युक्तमिति ज, ट. १२ अतिव्याप्तिः, तत इति ज, अतिव्याप्तिः तमिरासार्थ ततेति र.. १ लक्ष्यत्वेनेति ज, ट. १४ रूपादिन्यवेति ज, ट. १५ वारणार्थमिति ज, ट. १६ कार्यअन्यत्वादियुक्तमिति ज, कार्येत्युक्तमिति ट. १७ पकिरियं नास्तिस, ट पुस्तकयोः.

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120