Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 63
________________ ५० प्रमाणमञ्जरी इति । अकर्मत्वादित्युक्ते सामान्यादौ द्रव्ये च व्यभिचारस्स्यादत उक्तम् सामान्यैकाश्रर्यत्वे सतीति । एवं गुणत्वान्न संख्यायाः पदार्थान्तरत्वम्, अन्यथातिप्रसङ्गादि - त्याह - एवंभूताया इति । [वा. टी. ] द्वित्वे त्रित्वे व्यभिचारनिरासाय द्वित्वत्रित्वे इति । संख्यायाः पदार्थान्तरत्वं निषेधति - संख्या गुण इति । सामान्येऽतिव्याप्तिपरिहाराय सामान्याश्रय इति । द्रव्येऽतिव्याप्तिपरिहाराय एकेति । कर्मण्यतिव्याप्तिपरिहाराय अकर्मत्वादिति । कर्मत्वानधिकरणत्वादियर्थः । यस्तु गुणादिषु संख्याव्यवहारस्स एकाश्रयसमवायिनिमित्त इति । * ( परिमाणलक्षणं तद्विभागश्च ) गुणत्वावान्तरजात्या पृथक्त्वान्याप्रत्यक्षात्मगतयावद्द्रव्य भाविसजातीयं परिमाणम् । आत्मा पृथक्त्वान्याप्रत्यक्ष यावद्द्रव्यभाविगुणवान्, सर्वगतत्वात्, दिग्वत् । सर्वं द्रव्यं, परिमाणाधिकरणं, द्रव्यत्वादात्मवदिति । तच्चतुर्विधम्- अणुमहद्दीर्घ हखभेदात् । द्यणुकेऽणुत्वमङ्गीकृत्य ह्रस्वत्वं निराकुर्वाणं प्रति इदमनुमानम् - ह्यणुकम्, अणुपरिमाणातिरिक्तपरिमाणाधिकरणं, कार्यद्रव्यत्वात्, पटवदिति । दीर्घत्वमनङ्गीकुर्वाणं प्रति इदमनुमानम् - - पैटो महत्वव्यतिरिक्तपरिमाणाधिकरणं, कार्यद्रव्यत्वात्, द्व्यणुकवदिति । [ ब. टी. ] गुणत्वावान्तरेति । सजातीयत्वमात्रं घटादावतिप्रसङ्गि, अत उक्तं गुणस्वेति । गुणत्वजात्या गुणत्वावान्तरजात्या सजातीयं गुणमात्रं भवति, अत उक्तम् आत्मतेति । सुखादौ गतमत आह-अप्रत्यक्षेति । पृथक्त्वे गतमत आह- पृथक्त्वान्येति । संयोगादौ गतमत आह-यावद्द्रव्यभावीति । आत्मैकत्वं तु प्रत्यक्षमेव । आत्मपदेनैव गुरुत्वादिवारणम् । आत्मनि तादृशं गुणं साधयति - आत्मेति । पृथक्त्वेनार्थान्तरवारणाय पृथक्त्वान्येति । एकत्वेनार्थान्तरखारणाय अप्रत्यक्षेति । संयोगादिनार्थान्तरवारणाय यावद्द्रव्यभावीति । विशेषेणार्थान्तरभङ्गायं गुणेति । दिशि तादृशो गुण एकत्वम् । आत्मैकत्वाप्रत्यक्षत्वपक्षे आत्मैकत्वांन्येति विशेषणीयम् । आत्मनि प्रसाध्यान्यत्र तं गुणं साधयति-सर्वमिति । आत्मातिरिक्तं सर्वमित्यर्थः । गुणे बाधवारणाय द्रव्यमिति । आत्मनि सिद्धसाधनवारणाय आत्मान्यत्वम् । उद्देश्य सिद्धये सर्वमिति । यन्मतेनांशतः सिद्धसाधनं दोषस्तन्मते आत्मातिरिक्तं " न देयम् । अधिकरणत्वं सिद्धमेवातः परिमाणेति । ह्यणुकमिति । परमाणावर्थान्तरभङ्गाय द्वीति । अणुत्वेनार्थान्तर - १ भाश्रये इति ट. २ एकपृथक्त्वेति मु. ३ घट इति ख. ४ उक्तमिति नास्ति च पुस्तके. ५ गुणत्वसजातीयरूपादावतिप्रसङ्गभङ्गाय अवान्तरेति । गुणमात्रमिति च. ६ पतिरियं त्रुटिता छ पुस्तके. ७ वारणायेति च. ८ प्रत्यक्षाश्रयक इति छ. ९ आत्मैकान्येति च १० रिक्तत्वं नेति च.

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120