Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 61
________________ प्रमाणमञ्जरी [गुणपक्षेऽपि सामान्यपदमेतद्वित्वादौ बाधवारणाय । आत्मादौ व्यभिचारवारणाय द्वित्वेति। बुद्धिजेच्छावृत्तित्वेन सत्ताया दृष्टान्तता । अन्ये त्वपेक्षाबुद्धिजवृत्तित्वं साध्यम् । न च व्याप्यत्वासिद्धिः, परत्वादेरपेक्षाबुद्धिजन्यत्वसिद्धित्वाभिप्रायेण दृष्टान्तसिद्धिः । न चेश्वरापेक्षाबुद्धिजन्यवृत्तित्वेनार्थान्तरम्, अपेक्षाबुद्धित्वेन तद्बुद्धिजन्यवृत्तित्वस्याप्युद्देश्यत्वात् । न चाननुगमः, अपेक्षाबुद्धिप्रतिपाद्यत्वेनानुगमादित्याहुः । न च संख्या. त्वेव्यभिचारः, तस्य पक्षसमत्वात् । [अ. टी.] परिमाणत्वं तद्वृत्तीत्युक्ते तादृशतूलपरिमाणवृत्तित्वेन सिद्धसाधनता स्यात्तधुदासाय संयोगातिरिक्तेति। संयोगातिरिक्तवृत्तीत्युक्ते परिमाणवृत्तित्वेन सिद्धसाधनता स्यादत उक्तम् अनेकद्व्येति । संयोगातिरिक्तानेकद्रव्यवृत्तीत्युक्तेऽपि बाधस्स्यात्, परिमाणस्य नियतैकद्रव्यवृत्तित्वादत आह-असमवायिकारणेति । संयोगातिरिक्तासमवायिकारणवृत्तीत्युक्तेऽपि स्थूलतन्तुपरिमाणासमवायिकारणकपटपरिमाणवृत्तित्वेन सिद्धसाधनता स्यादत उक्तम् अनेकद्रव्येति । परिमाणत्वं तावत्परिमाणमात्रवृत्ति । तत्र संयोगपरिमाणाभ्यामन्यदसमवायिकारणं परिमाणस्यानेकद्रव्य द्वित्वादिसंख्यैव सङ्गच्छत इति परिमाणत्वेन तदारब्धपरिमाणवृत्तित्वेन संख्यासिद्धिः । सत्तायाः संयोगातिरिक्तानेकद्रव्यविभागासमवायिकारणकविभागवृत्तेदृष्टान्तसिद्धिः । ननु व्यणुकपरिमाणासमवायिकारणं परमाणुगतद्वित्वसंख्येत्युक्तम् । तत्र परमाणुपरिमाणस्येव तद्पादिवत्कारणत्वसम्भवादत आह-परमाणुपरिमाणमिति । समवायिकारणं न भवतीति सिद्धसाधनता, व्यवहारे निमित्तकारणञ्च भवतीति बाधस्स्यात् , तदुभयव्युदासाय असमवायिकारणग्रहणम् । तन्त्वादिपरिमाणे व्यभिचारवारणाय नित्यपरिमाणत्वादित्युक्तम् । तूलपरिमाणस्य विजातीयाप्रशिथिलावयवसंयोगादुत्पत्तिदर्शनात्संख्यातोऽपि समानपरिमाणतन्त्वारब्धे पटे परिमाणविशेषोदयावलोकनाच्च । परमाणुद्वित्वस्य व्यणुकपरिमाणकारणत्वे सम्भवति न नित्यपरिमाणकारणकत्वकल्पना युक्तेति भावः । एवं द्वित्वं प्रसाध्य तस्यायावद्रव्यभाँवित्वं साधयति-द्वित्वमिति । रूपादौ व्यभिचारवारणाय अनेकपदम् । द्वित्वञ्चापेक्षाबुद्धिजन्यमिति तस्य साधनमाह-द्वित्वसामान्यमिति । संयोगत्वादौ व्यभिचारवारणीय द्वित्व जातित्वादित्युक्तम् । सत्ताया बुद्धिजन्य इच्छादौ वृत्तिरिति दृष्टान्तसिद्धिः। _[वा. टी. ] परिमाणत्वमिति । परिमाणासमवायिकारणकपरिमाणवृत्तित्वेन सिद्धसाधनतापरिहाराय अनेकद्रव्येति । अनेकं द्रव्यमाश्रयत्वेन यस्य तत्तथा तदसमवायिकारणं यस्येति विग्रहः। प्रशिथिलावयवसंयोगासमवायिकारणकतूलपिण्डपरिमाणवृत्तित्वेन सिद्धसाधनतापरिहाराय संयोगातिरिक्तेति । रूपत्वेऽतिव्याप्तिपरिहाराय परिमाणेति । संयोगातिरिक्तानेकद्रव्यपदाभ्यां संयोग मात्मस्वादाविति च. २ बुद्धिजत्वावृत्तीति छ. ३ तस्या व्युदासायेति ज, ट. मात्रेति नास्ति ज. ५ तत्रेति मास्ति झ पुस्तके. ६ घृत्तित्व इति ज, ट. ७ गता इति ज. ८ परमाण्विति नास्ति र पुस्तके. ९ स्यादिति नास्ति ज, ट पुस्तकयोः. १० कारणं न भवतीत्युक्तमिति ज, ट. ११ भारम्धपटे इति ज, ट, १२ परिमाणे कारणस्वमिति ट. १३ वृत्तित्वमिति झ. १५ व्युदासायेति ठ.

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120