Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 60
________________ निरूपणम्] टीकात्रयोपेता परिमाणे व्यभिचारवारणाय नित्येति । नित्यरूपादौ व्यभिचारवारणाय परिमाणत्वादिति । परमाणुपरिमाणस्य कारणत्वे घणुकेऽणुतरत्वप्रसङ्गः, कपालापेक्षया घटे महत्तरत्ववत् । द्वित्वमिति । द्रव्यभावित्वे सिद्धसाधनत्वमतः अयावदिति । अयावद्भावीत्युक्ते यत्किञ्चिद्यावद्भावित्वसत्वाद्वाधः । यत्किञ्चिदयावद्भाविसत्वात् सिद्धसाधनञ्च । तदर्थं द्रव्यपदं स्वाश्रयपरम् । अनेकगुणत्वात् अनेकाश्रयगुणत्वादित्यर्थः । परिमाणादौ व्यभिचारवारणाय अनेकेति । जातौ व्यभिचारवारणाय गुणत्वादिति । यद्यपि सर्व द्वित्वं नायावद्व्यभावि, ईश्वरापेक्षाबुद्धिजद्वित्वादेर्घटादिनाशेनापि नाशसम्भवात् , तथापि अयावद्रव्यभाविजातीयत्वं तत्राप्यस्त्येवेति भावः । न च घटरूपेडपीत्थमयावद्रव्यभावित्वं स्यात् । अयावद्रव्यभाविपार्थिवपरमाणुरूपसजातीयत्वादिति वाच्यम् । अवयविवृत्त्ययावद्रव्यभाविसजातीयत्वस्य गुणत्वव्याप्यजात्या विवक्षितत्वात् । शब्दे सुखादौ चातादृशमेवायावद्रव्यभावित्वमित्यवगन्तव्यम् । न चैकत्वेऽतिप्रसङ्गः, गुणत्वव्याप्य॑व्याप्यजातेरुक्तत्वात् । यद्वा व्यासज्यवृत्तीनां व्यासज्यवृत्तित्वमेवायावद्रव्यभावित्वमित्यर्थः । अयावद्रव्यता विजातीयत्वे सति व्यासज्यवृत्तित्वमेव वा । न च जातीयत्वाद्वैयर्थ्यम्, अयावद्रव्यभाविपदार्थस्य यावद्रव्यभावित्वघटिततया वक्तव्यत्वात् , प्रवृत्सिनिमित्ते वैयर्थ्याभावात् । शब्दसुखपृथिवीपरमाणुरूपादीनान्तु स्वाश्रयसमानकालीनध्वंसप्रतियोगित्वमेवायावद्रव्यभावित्वम् । न च घटादिरूपेऽतिप्रसक्तिः, तस्य स्वाश्रयसमानकालीनप्रागभावप्रतियोगित्वेऽपि तत्समानकालीनध्वंसप्रतियोगित्वाभावात् । यद्वा यवित्वमाश्रयनाशजन्यध्वंसप्रतियोगि तद्भिन्नः पक्षः। हेतुरपि तद्भिन्नत्वेन बोध्यः। एवं तादृशसंयोगादिभिन्नत्वेनापि विशेष्यः । तेन न बाधव्यभिचारौ । उपहितानुपहितभेदेन हेतुसाध्ययोर्भेद इति साध्यैवैशिष्ट्यम् । यद्वा एकत्रात्यन्ताभावोऽन्यत्रान्योन्याभावो निवेशनीय इति भेदः। तावता प्रथमो हेतुः यावद्रव्यभाविद्वित्वादिपृथक्त्वादिसंयोगविभागभिन्नानेकवृत्तिगुणत्वादित्येवंरूपः । द्वितीयस्तु यावद्रव्यमाविभिन्नत्वादित्येवं हेतुः । यदि च साध्यं यावद्रव्यभावित्वराहित्यं, यदि वा साध्यं यावद्रव्यभाविभिन्नत्वं तदा द्वितीयो हेतुः यावद्रव्यभावित्वराहित्यम् । अनित्यमनेकवृत्तिगुणत्वं न देयमेव । द्वित्वसामान्यमिति । द्वित्वमात्रवृत्तिसामान्यमित्यर्थः। असाधारणबुद्धिजन्यवृत्तित्वं साध्यम् । तेन नेश्वरबुद्धिजन्यवृत्तित्वेनार्थान्तरम् । आत्मादौ बाधवारणाय पक्षे द्वित्वेति । उद्देश्यसिद्धये पक्षे धर्मपदं विहाय सामान्यपदम् । पक्षातिरिक्ते नभोद्वित्वान्यतरत्वादौ सन्दिग्धव्यभिचारवारणाय जातित्वादिति । यद्वा बुद्धिजन्यसमवेतत्वं साध्यम् । तेनेदृशान्यतरत्वादौ निश्चितव्यभिचारवारणाय जातित्वादिति । १ साधनेति छ. २ भावित्वादिति च. ३ जन्येति च. ४ व्याप्याव्याप्येति च. ५ इत्यर्थ इति नास्ति च पुस्तके. ६ मिन्नत्वेनाबाध्य इति छ. ७ न साध्यावैशिष्ट्यमिति च. ८ अपरत्रेति च. ९ वृत्तिस्वेति च. १० त्वादीत्येवमिति छ. ११ भिन्नत्वं तदा द्वितीयो हेतुः, यावद्रव्यभावित्वराहित्यम् , भनेकगुणत्वं न देयमेवेति च पुस्तकपाठः, १२ आत्मत्वादाविति च, १३ स्वीयबुद्धिजसमवेतत्वमिति च,

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120