Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 65
________________ [गुण. प्रमाणमञ्जरी हाराय यावद्रव्येति । संख्यया सिद्धसाधनतापरिहाराय अप्रत्यक्षेति । पृथक्त्वेन सिद्धसाधनतापरिहाराय पृथक्त्वान्येति । दृष्टान्ते च संख्यया सिद्धिः । पक्षे च तस्या अप्रत्यक्षपदेन निरासादनुपपत्या परिमाणसिद्धिः । व्यणुकमिति । सिद्धसाधनतापरिहाराय अणुपरिमाणेति । परमाणौ व्यभिचारपरिहाराय कार्येति। (पृथक्त्वलक्षणं तद्विभागश्च ) संख्यातिरिक्तदिक्कालगतात्यन्तसजातीयं पृथक्त्वम् । तद्वेधा-अयावद्व्यभावियावद्व्यभाविभेदात् । तत्र प्रमाणम्-कालः संख्यातिरिक्तदिग्गतगुणवान्, द्रव्यत्वात्, पटवदिति अयावद्राव्यभाविपृथक्त्वसिद्धिः। पृथक्त्वसामान्यम् , अस्मदादिबुद्धिजवृत्ति, पृथक्त्वजातित्वात्, सत्तावदिति बुद्धिजत्वं सिद्धम् । तत्सामान्यं कारणगुणपूर्ववृत्ति, पृथक्त्वजातित्वात्, सत्तावदिति । तत्सामान्यं यावदव्यभाविवृत्ति, द्विपृथक्त्वत्रिपृथक्त्वजातित्वात्, सत्तावदित्येकपृथक्त्वसिद्धिः। [ब. टी.] संख्यातिरिक्तेति । घटादावतिव्याप्तिवारणाय अत्यन्तेति । गुणत्वावान्तरजात्येत्यर्थः । संख्यायामतिव्याप्तिवारणाय संख्यातिरिक्तेति । रूपादावतिव्याप्तिं वारयितुं दिक्कालगतेति । दिकालमात्रगतत्वं तदर्थः । तेन न संयोगादावतिव्याप्तिः । दिवपक्षेणैकं लक्षणम् , कालपक्षेणैकं लक्षणम् । परिमाणातिरिक्तत्वमपि विशेषणं देयम् । यद्वा दिकालयोरुभयोर्गतत्वं विवक्षितम् , तेन परिमाणव्यवच्छेदः । दिकालगतद्वित्वसजातीयसंख्यायामतिव्याप्तिवारणाय अतिरिक्तान्तम् । काल इति । परिमाणेनार्थान्तरवारणाय दिग्गतेति । जात्यार्थान्तरवारणाय गुणेति । द्वित्वादिनार्थान्तरवारणाय अतिरिक्तान्तम् । पृथक्त्वेति । ईश्वरबुद्धिजवृत्तित्वेनार्थान्तरभङ्गाय अस्मदादीति । अदृष्टद्वारामदादिबुद्धिजवृत्तित्वेनार्थान्तरवारणायादृष्टाद्वारकत्वं विशेषणमूह्यम् । इदं विशेषणं द्वित्वादिस्थलेऽपि बोध्यम् । न चैकपृथक्त्वे व्यभिचारः, पृथक्त्वाव्याप्यपृर्थक्त्ववृत्तिजातित्वस्य हेतुत्वात् । एकपृथक्त्वं साधयति-तत्सामान्यमिति। पृथक्त्वमित्यर्थः । स्वसमवायिकारणनिष्ठपूर्ववृत्तीत्यर्थः । यद्यपि पृथक्त्वद्वयजन्यद्विपृथक्त्ववृत्तित्वेऽपि जनकीभूतैकपृथक्त्वं सिध्यत्येव, तथापि पृथक्त्वजन्यमप्येकपृथक्त्वं सिध्यतु इत्यभिप्रायेणेदृशसाध्यनिर्देशः। न च कपालपृथक्त्वघटपृथक्त्वाभ्यां जनितद्विपृथक्त्ववृत्तित्वेनार्थान्तरम् , कारणगुणपूर्वकस्याव्यासज्यवृत्तित्वेनेति विशेषणात् । न वा व्यासज्यवृत्तित्वमेव साध्यतामिति वाच्यम् , उद्देश्यसिध्यर्थं विशेषणस्योपात्तत्वात् । अत एवापेक्षाबुद्धिपूर्वकवृत्तित्वेनादृष्टपूर्वकवृत्तित्वेन चार्थान्तरम् । मनस्त्वादौ व्यभिचार घटवदिति क. २ इत आरभ्य जातित्वादित्यन्तो भागो नास्ति क पुस्तके. ३ द्विपृथक्त्वत्रिपृ. थक्वेति नास्ति ग, घ पुस्तकयोः. भङ्गायेति च. ५, ६ प्रक्षेपेणेति क. अतिरिक्तमपीति छ. ८ पृथक्त्वावृत्तीति छ. ९ जत्वमपीति छ. १० वृत्तित्वेनेति नास्ति छ. ११ साध्यमिति च.

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120