Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
टीकात्रयोपेता [अ. टी.] कारणसजातीयस्संयोग इत्युक्तौ समवायिनिमित्तकारणसजातीये द्रव्यादौ व्यभिचारस्स्यादत उक्तम् असमवायीति । तर्हि रूपाद्यसमवायिकारणसजातीयरूपादौ व्यभिचारस्स्यादतो द्रव्यपदम् । तथापि सत्तादिना द्रव्यासमवायिकारणसजातीयद्रव्यादावेवातिव्याप्तिस्ततोगुणत्वावान्तरजात्येत्युक्तम् । सद्वस्तु वाच्यं यस्य तत् सद्वाच्यम्। खशब्देन संयोगपदं तल्लक्षणमिदं संयोगपदमिति वाचकश्शब्दो वाच्यान्तरासम्भवात्परिशेषासंयोग एव वाच्य इत्यर्थः । पक्षिणः स्थाणुसंयोगोऽन्यरतकर्मजः, मल्लमेषादेः परस्परसंयोग उभयकर्मजः प्रत्यक्षसिद्धः । संयोगत्वं कर्मासमवायिकारणकसंयोगवृत्ति सिद्धमते उक्तम् संयोगेति । समवेतत्वं रूपादौ व्यभिचरतीति संयोगसमवेतस्वादित्युक्तम् । संयोगजातित्वादिति पाठेऽपि तत्र च आत्मत्वादौ च जातित्वं व्यभिचरतीति संयोगपदम् । जलाणुरूपादिवृत्तिसत्तायाः संयोगासमवायिकारणकद्रव्यवृत्तिखेन दृष्टान्तसिद्धिः । अजसंयोगोऽपि कैश्चिदिष्यते, ततः कथं त्रिविध एव संयोग इत्यत आह-विप्रतिपन्ना इति । आत्मादयो घटाँदिभिः संयुज्यन्त इति बाधव्युदासार्यं आकाशेनेत्युक्तम् । संयोगश्चायावद्रव्यभावीष्ट इति तत्र प्रमाणमाह-अयावद्व्य भावीति । - [वा. टी.] गुणत्वेति । कर्मण्यतिव्याप्तिपरिहाराय द्रव्येति । घटपटसंयोगेऽव्याप्तिनिरासाय सजातीयेति । घटेऽतिव्याप्तिपरिहाराय अवान्तरेति । रूपेऽतिव्याप्तिपरिहाराय गुणत्वेति । सत् विद्यमानं वाच्यं यस्येति विग्रहः । स्खलक्षणपदवत् खरूपपदवदित्यर्थः । पर्यवसितवाच्ये रूपादीनामसम्भवादिदमनेन संयुक्तमिति व्यवहारदर्शनात् संयोग एवास्य वाच्यमित्याह-इतीति । संयोगत्वमिति कर्मासमवायिकारणसंयोगवृत्तित्वेन सिद्धसाधनतापरिहाराय संयोगेति । रूपत्वेऽतिव्याप्तिपरिहाराय संयोगेति । नन्वनुपपन्नो विभागः, चतुर्थस्य नित्यसंयोगस्य सम्भवादत आह-विप्रतिपन्ना इति । बाधवारणाय आकाशेति । न चाकाशे आकाशनिरूप्यभेदराहित्यमुपाधिः, व्यतिरेके क्रियावत्वस्योपाधित्वादिति ।
(विभागलक्षणं, तत्र प्रमाणम् , तद्विभागश्च) संयोगविरोधी गुणो विभागः। तत्र प्रमाणम्-आकाशः संयोगातिरिक्तकर्मजगुणाधारः, द्रव्यत्वात्, शरीरवदिति । विप्रतिपन्नं सर्व द्रव्यं विभागवत्, द्रव्यत्वात्, आकाशवत् । स द्विविधः-कर्मजविभागजभेदात्। आद्यो द्वेधा-अन्यतरकर्मजोभयकर्मजभेदात् । तत्र प्रमाणम्-विभागत्वम् एकानेककर्मासमवायिकारणवृत्ति विभागजातित्वात् सत्तावदिति कर्मजविभागसिद्धिः। विभागत्वम् अकर्मजवृत्ति, विभागवृत्तिजातित्वात् ... १.उक्ते इति ज, ट. २ व्यभिचारस्सत इति ज, ट. ३ सत्त्वे इति ४ संयोगजस्वमिति झ. ५ तत इति ज, ट. ६ संयोगपदमिति झ. ७ पटादिमिरिति ट. ८ व्युदासार्थमिति ज, ट. ९भावीति नास्ति ज, 2 पुस्तकयोः. १० आकाशमिति क, ख, घ. ११ कर्मत्यारभ्य सत्तावदित्यन्तं नास्तिक, घ पुस्तकयो।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120