Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
દ્
प्रमाणमञ्जरी
[ गुण
[वा. टी.] गुणत्वेति । कालादिनिवृत्तये असमवायीति । रूपनिवृत्तये परिमाणेति । परिमाणनिवृत्तये द्व्यणुकेति । घटादिसंख्यायामव्याप्तिनिवृत्तये सजातीयेति । सत्तया सजातीये घटेऽतिव्याप्तिपरिहाराय अवान्तरेति । अवान्तरजात्या गुणत्वेन सजातीये गन्धेऽतिव्याप्ति - परिहाराय गुणत्वेति । तथाच संख्यात्ववती संख्येत्युक्तं भवति । एवं परिमाणादिलक्षणेऽप्यवगन्तव्यम् ।
*
(द्वित्वसंख्यासिद्धि:, तस्या अयावद्द्रव्यभावित्वञ्च )
पूर्वत्र प्रमाणम् - परिमाणत्वं, संयोगातिरिक्तानेकद्रव्यासमवायिकारणवृत्ति, परिमाणजातित्वांत्, सत्तावदिति । परमाणुपरिमाणम्, वायिकारणं न भवति, नित्यपरिमाणत्वात्, आकाशपरिमाणवदिति परपक्षव्युदासः । द्वित्वम्, अयावद्द्रव्यभावि, अनेकेगुणत्वात्, संयोगवदिति । द्वित्वसामान्यं, बुद्धिजवृत्ति, द्वित्वजातित्वात्, सत्तावदिति बुद्धिजत्वम् ।
[ब.टी.] परिमाणत्वमिति । अनेकं द्रव्यं समवायि यस्य तदसमवायिकारणं यस्य तत्र वर्तत इत्यर्थः । एतावता व्यणुकपरिमाणस्यासमवायिकारणं परिमाणं न भवति, किन्तु द्वित्वसंख्येति सिद्धम् । संयोगातिरिक्तवृत्तित्वे सिद्धसाधनता, संयोगातिरिक्तासमवायिकारणकवृत्तित्वेऽपि सिद्धसाधनता, अनेकद्रव्ये॑न्तु पिण्डावयवसंयोगः, तदसमवायिकारणकवृत्तित्वेऽपि सिद्धसाधनता, संयोगातिरिक्तानेकद्रव्यवृत्तित्वे बाधः, अतो विशिष्टसाध्यनिर्देशः । कालत्वे व्यभिचारवारणाय जातित्वादिति । दिकालवृत्तित्वे व्यभिचारवारणाय जातिनिवेशित्वभागः । विशेषे व्यभिचारवारणाय अनेकसमवेतत्वभागः । घटत्वे व्यभिचारवारणाय परिमाणेति । सत्तायां विभागजविभागवृत्तित्वेन साध्यसिद्धिः । ननु परमाणुपरिमाणमेव च व्यणुकपरिमाणासमवायिकारणमित्यत आह- परमाण्विति । कपालादिपरिमाणे बाधवारणाय परमाण्विति । उद्देश्यसिद्धये परमेति । व्यणुकपरिमाणस्याप्यसमवायिकारणत्वाभावात् परमाणुर्नासमवायिकारणमित्युक्ते सिद्धसाधनम् । परमाणुनिष्ठं नासमवायिकारणमित्युक्ते तद्रूपादौ बाधः, विशेषादौ सिद्धसाधनञ्च । न कारणमित्युक्तं बाधः, तस्य योगिज्ञानादिजनकत्वात्, अखण्डाभावे वैयर्थ्याभावाच्च । उद्देश्यसिध्यर्थत्वाच्चं न समवायिकारणमित्युक्ते सिद्धसाधनम् । परंमपरिमाणस्य पक्षीकैरणे गगनपरिमाणादौ सिद्धसाधनमतः अण्विति । उद्देश्यसिद्धये च तत् । अनित्य
असम
१ वृत्तिजातित्वादिति मु. २ द्रव्यगुणत्वादिति मु. ३ पदमिदं नास्ति मुद्रितपुस्तके. ४ एतावतेत्यारभ्य द्वित्वसंख्येत्यन्तो भागः नास्ति छ पुस्तके. ५ द्रव्यस्थलेति च. ६ कारणकेति नास्ति च पुस्तके. ७ एतदनन्तरं च पुस्तके पाठ एवमुपलभ्यते — अनेकद्रव्यं द्व्यणुकादि, तत्समवायिकारणक वृत्तित्वेऽपि सिद्धसाधनता इति । ८ पङ्क्तिरियं नास्ति छ पुस्तके. ९ चेति नास्ति च पुस्तके. १० यस्येति छ. ११ पक्षाकारे इति छ.

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120