Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
[गुण
प्रमाणमञ्जरी विभागः तदाश्रयत्वेनार्थान्तरवारणाय विशेषेति' । यद्वा अग्निसंयुक्तवायुपरमाण्वादिना सह पार्थिवपरमाणोरग्निसंयोगासमवायिकारणकसंयोगवत्वेनार्थान्तरवारणाय विशेषपदम् अदृष्टवदात्मसंयोगादिनितरूपादिमत्त्वेन सिद्धसाधनतावारणाय अग्नीति । अग्निसंयोगासमवायिकारणकविशेषः विभागादिरेव स्यादतो गुणेति । जलादिपरमाणौ व्यभिचारवारणाय सत्यन्तम् । अनित्यस्संयोगादिरस्त्येवेति व्यभिचारतादवस्थ्यवारणाय सत्यन्तान्तर्गतो विशेषभागः । अनित्यविशेषस्संयोगादिरस्त्येवेत्यत आह-सत्यन्ते गुणवत्त्वम् । घटादौ व्यभिचारवारणाय नित्येति । आत्मनि व्यभिचारवारणाय भूतत्वादिति । आकाशवदिति । यो वंशादौ अग्निसंयोगे चटपटाशब्दो जायते तमादाय साध्यसत्त्वम् ।
[अ. टी.] पार्थिवा गुणा रूपादयो नित्याः परमाणुरूपादित्वाजलपरमाणुरूपादिवत्, तेनानित्यत्वमसि मित्यत आह-पार्थिवं व्यणुकमिति । विशेषगुणवत्समवेतत्वेन सिद्धसाधनताव्युदासाय अनित्यपदम् । अपाकजत्वोपाध्युपहतं पूर्वमाभासानुमानमिति भावः। नन्वाप्यघणुकादेरप्येवं साधनसम्भवाजलादिपरमाणूनामनित्यरूपादिप्रसङ्ग इत्यत आह-हुतवहेति । आप्यादिकार्ये विलक्षणरूपादिदर्शनस्यानुकूलस्याभावात् नातिप्रसङ्गः। यथा शुक्ल: पटः शुक्लतन्त्वारब्धः, एवं लोहितो महीपिण्डस्तादृक्कारणारब्ध इति परम्परया परमाणूनां पाकजं लौहित्यमुक्तम् । तदनुमानारूढं करोति-पार्थिवेति । अग्निसंयोगोऽसमवायिकारणं यस्येति विग्रहः । ज्वालाभिघातसंयोगजन्यक्रियाश्रयत्वेन सिद्धसाधनताव्युदासाय गुणपदम् । अग्निसंयुक्तवायुपरमाण्वादिना सह पार्थिवाणोरग्निसंयोगासमवायिकारणसंयोगवत्त्वेन सिद्धसाधनता स्यात् , अतो विशेषगुणग्रहणम् । नित्यविशेषगुणवत्त्वेन सिद्धसाधनता, अंतः अग्निसंयोगासमवायिकारणपदम् । वाय्वादिसंयोगजतादृग्गुणस्य पार्थिवाणोरनङ्गीकारेण बाधः स्यादतः अग्निपदम् । भूतत्वादित्युक्ते आप्यढ्यणुकादौ व्यभिचारस्स्यादत उक्तं नित्येति । जलादिपरमाणुषु व्यभिचारवारणाय अनित्यविशेषगुणवत्वे सतीत्युक्तम् । तेषां लोहितरूपादीनाम् ।
[वा. टी.] पार्थिवमिति । सिद्धसाधनपरिहारार्थम् अनित्येति । अनित्यगुणसंयोगादिमत्परमाणुद्वयसमवेतत्वेन सिद्धसाधनपरिहारार्थं विशेषेति । आप्ययणुकेऽतिव्याप्तिपरिहाराय पार्थिवेति । सिद्ध हेतौ पाकजत्वं साधयति-हुतवहेत्यादिना सिद्धमित्यन्तेन । तत्र तथा सति
इत भारभ्य अर्थान्तरवारणायेत्यन्तो भागस्वटितः छ पुस्तके. २ जनितत्वे इति छ. ३ एतदनन्तरम् असमवायिसिद्धये असमवायीति । अग्निनिष्ठस्य संयोगातिरिक्तस्यासमवायित्वसिद्धिवारणाय असमवायीति पाठ उपलभ्यते च पुस्तके. ४ इत आरभ्य नित्येति इत्यन्तो भागो नास्ति छ पुस्तके. ५ संयोगाच्चटपटेति च. ६ पार्थिवाण्विति ज, ट. ७ जलाण्विति ज, ट. ८ पदमिदं नास्ति ट पुस्तके. ९ गुणसमवेतेति श. १० व्युदासार्थमिति ज, ट. ११ न्याय इति ट. १२ अभावादन च भावान्नेति ज, अभावादत्र तदभावान्नेति ट. १३ तादृग्रेण्वारब्ध इति . १४ पार्थिवपरमाणुरिति ज, ट. १५ व्युदासायेत्यारभ्य स्यादित्यन्तो भागो नास्ति झ पुस्तके. १६ निरासाय अग्नीति ज, ट. १७ बाधब्युदासायेति ज, द.

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120