Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 56
________________ निरूपणम् ] टीकात्रयोपेता કર [वा. टी.] व्यणुकादिष्विति । कार्येत्यत्र षष्ठीसमासः । तेन न पार्थिवपरमाणुरूपादौ व्यभिचारः। कर्मण्यतिव्याप्तिपरिहारार्थं रूपेति । सलिलेति । सिद्धसाधन परिहाराय प्रतिज्ञायां परमाणुपदम् । पार्थिवपरमाणुरूपेऽतिव्याप्ति परिहाराय सलिलादीति । असिद्धिपरिहारार्थं रूपादीति । * (अयावद्रव्यभाविनो गुणाः ) पार्थिवपरमाणुष्वयावद्द्रव्यभाविनः । तत्र प्रमाणम् - पार्थिवपरमाणौ सति रूपादयो निवर्तन्ते, अनित्यत्वात्, सम्प्रतिपन्नवत् इति । पार्थिवं द्व्यणुकम् अनित्यविशेषगुणवत्समवेतं, पार्थिवकार्यत्वात्, घटवदिति नासिद्धं साधनम् । हुतवहनिवहावलीढे मंहीखण्डे पूर्वरूपेतिलक्षणरूपादिदर्शनात्तत्रैवं तथा कल्पने सति नातिप्रसङ्ग इति तर्कः । तत्र पार्थिव - परमाणुरग्निसंयोगासमवायिकारणविशेषगुणवान्, अनित्यविशेषगुणवत्त्वे संति नित्यभूतत्वात्, आकाशवदिति पाकजत्वं तेषां सिद्धम् । [ ब. टी. ] सतीति । उद्देश्यसिद्धये सत्यन्तम् । अनित्यत्वात् ध्वंसप्रतियोगित्वादित्यर्थः । नैं चेत्थं घटादिरूपादीनामप्य यावद्द्रव्यभावित्वसिद्धिः, पक्षधर्मताबलेन प्रकृते स्वाश्रयसमानकालीनध्वंसप्रतियोगित्वसिद्धिः, अयावद्द्रव्य भावित्वसिद्धिरूपत्वात् । ननु परमाणुरूपत्वादिना नित्यत्वमेव तस्येत्यत आह- पार्थिवं द्व्यणुकमिति । घटादौ सिद्धसाधनवारणाय पृथिवीपरमाणौ च बाधवारणाय पार्थिवेति । अणुकशब्देन परमाणुरप्युच्यत इत्यतो द्वीत्युक्तम् । यद्वा द्व्यणुकशब्दो रूढः । अनित्यपदं विशेषपदश्च सिद्धसाधनवारणाय । अनित्यविशेषः प्रागभावादि । तद्वत्समवेतत्वेनार्थान्तरवारणाय गुणेति । अनित्यविशेषगुणवद्धटादिसम्बन्धत्वेनार्थान्तरवारणाय समवेतत्वमुक्तम् । बाधवारणाय (?) वस्तुनित्यत्वसाधकमनुमानं वा ( वा १ चा ) पाकजत्वाद्युपा ( ध्याभिहित ? ध्युपहत) मिति भावः । न त्वीदृशानुमानेन जलादिपरमाणुरूपादीनामप्यनित्यत्वप्रसङ्ग इत्यत आह- हुतवहेति । कार्यगतविजातीयरूपादिदर्शनमेव कारणगतविजातीयरूपादौ तत्रमिति भावः । एनॅमर्थमनुमानेन साधयति - पार्थिव परमाणुरिति । अणुकादौ बाधवारणाय अणुरिति । द्व्यणुके बाधवारणाय परमेति । जलादिपरमाणौ बाधवारणाय पार्थिवेति । आश्रयत्वे गुणाश्रयत्वे विशेषगुणाश्रयत्वे चार्था - न्तरमतः अग्निसंयोगासमवायिकारणकेत्युक्तम् । अभिघातरूपाग्निसंयोगासमवायिकारणकाश्रयाश्रयत्वेनार्थान्तरवारणाय गुणेति । अग्निसंयोगासमवायिकारणको यो " १ निवहेति नास्ति ख पुस्तके. २ हेमेति मु. ३ रूपादीति क. ४ तत्रैवेति ख, ग, घ, मु. ५ तत्प्राकट्ये सतीतिमु, तथेति नास्ति क पुस्तके. ६ तर्क इति नास्ति ख मुद्रितपुस्तकयोः. नास्तिक पुस्तके. ७ तत्रेति ९ ८ गुणाश्रय इति ग, घ. अपीति मु. १० नित्यत्वादिति घ. ११ न चेदिति छ. १३ गुणवतो घटादीति छ १४ एतदर्थमिति छ. १५ त्र्यणुकेति च १६ विशेषेति १७ अभिजातेति छ. १८ य इति नास्ति च पुस्तके, १२ चानित्येति छ. नास्ति च पुस्तके.

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120