Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 53
________________ ४० प्रमाणमञ्जरी [गुण[अ. टी.] सर्वदा स्पर्शशून्ये कालादौ व्यभिचारवारणाय मूर्तत्वे सतीत्युक्तम् । घटादिव्यवच्छेदार्थं स्पर्शशून्यपदम् । पाकादौ क्षणं स्पर्शशून्यपार्थिवपरमाणुव्यवच्छेदाय सदेत्युक्तम् । ईशज्ञाने व्यभिचारव्युदासांय अनित्येति । मूर्तत्वे सतीति विशेषणं साधयति-मन इति । निरवयवक्रियादौ व्यभिचारनिराँसार्थम् संयोगिपदम् । एवमपि घटादिसंयोगिनि व्योमादौ व्यभिचारस्स्यादत उक्तम् आत्मेति । आत्मसंयोगिघटादिव्युदासाय निरवयवपदम् । अजसंयोगपक्षे आत्मसंयोगित्वे सति निरवयवत्वं व्योमादौ व्यभिचरतीत्यत आह-अजेति । सर्वगतेन व्योमादिना । संख्यादयः पञ्च परत्वापरत्ववेगा अष्टौ। इति प्रमाणमञ्जरीटिप्पणेऽद्वयारण्ययोगि विरचिते द्रव्यपदार्थस्समाप्तः। [वा. टी.] परिशिष्टं द्रव्यं निरूपयति-मूर्तत्व इति । आकाशेऽतिव्याप्तिपरिहाराय मूर्तेति । घटेऽतिव्याप्तिपरिहाराय स्पर्शेति । पाकावस्थपरमाणुनिवारणाय सदेति । नन्विदमसम्भवि लक्षणम् , मनस एवासिद्धेः । न चेन्द्रियार्थसान्निध्येऽपि कदाचिदेव ज्ञायमानं ज्ञानं कारणं सम्पादयिष्यति, तच्च मन इति वाच्यम् । अदृष्टेनार्थान्तरत्वात् । अत आह-सुखज्ञानमिति । इन्द्रियजम् इन्द्रियकारणम् । ईशज्ञानेऽतिव्याप्तिपरिहाराय अनित्येति । ज्ञानश्चात्र साक्षात्कारः । तेन न लिङ्गजन्ये व्यभिचारः । ततश्चादृष्टस्य सामग्र्यसम्पादकत्वान्न पृथकारणतेत्यर्थः । ये विन्द्रियजमितीन्द्रियकारणकमिति व्याचक्षते, तन्मते रूपादिज्ञानस्य पक्षीकारेऽपि साध्यसिद्धेः सुखज्ञानपक्षत्वानुपपत्तिः । न च तत्र चक्षुरादिनार्थान्तरता, तत्रास्य कारणत्वेनोपजीव्यत्वादिति । ननु मनसो विभुत्वे आत्मन इव तत्तदिन्द्रियसम्बद्धार्थानां युगपत्संयोगात्सर्वज्ञानोत्पत्तिः । मध्यमत्वे चानित्यत्वं मानमित्याशयवान् अणुत्वं साधयति-मन इति । दिशि घटे चातिव्याप्तिपरिहाराय विशेषणद्वयम् । संख्यादयोऽष्टौ गुणाः। इति प्रमाणमञ्जरीव्याख्यायां भावदीपिकाख्यायां द्रव्यपदार्थः । __ (गुणलक्षणं तद्विभागश्च ) कर्मान्यत्वे सति सामान्यैकाश्रयो गुणः । सँ रूपादिभेदेन चतुर्विंशतिधा। [ब. टी. ] कर्मान्यत्वे सतीति । कर्मण्यतिव्याप्तिवारणाय सत्यन्तम् । सामान्यादावतिव्याप्तिवारणाय आश्रय इत्युक्तम् । समवायीत्यर्थः । विशेषेऽतिव्याप्तिवारणाय सामान्येति । सामान्यसमवायीत्यर्थः। सामान्यसमवायः सामान्येऽप्यस्ति, अतः सामान्यनिरूपितस्समवायो ग्राह्यः । स च द्रव्येऽप्यस्ति, तदर्थम् एकपदम् । १ वारणार्थमिति ज, ट. २ व्यवच्छेदायेति ज, ट. ३ व्युदासार्थमिति ज, निरासार्थमिति ट. ४ निरासायेति ज, ट. ५ पदमिदं नास्ति ज पुस्तके. ६ इति प्रमाणमञ्जरीटिप्पणे द्रव्यपदार्थ इति ज, ट. ७ स इति नास्ति ख, मु. पुस्तकयोः.

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120