Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 52
________________ निरूपणम् ] टीकात्रयोपेता ३९ परिच्छेदशून्य आत्मेति यत्र कुत्रचिद्देशे काले च कर्मकृतो भोगस्सङ्गच्छत इति भोगेस्य तदाश्रितत्वं निश्शङ्कम् । संख्यादयः पञ्च सामान्यगुणाः, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाश्च नव विशेषगुणा इति चतुर्दश । [वा. टी.] परमात्मवज्जीवस्याप्यैक्ये सुखादिव्यवस्थानुपपत्तिमाशङ्क्य भेदं साधयति - अस्मदादीति । आत्ममात्रपक्षीकारे सिद्धसाधनता । ईशानीशभेदेनावान्तर जातिसम्भवादीशे चतुर्दशगुणासम्भवेन भागासिद्धता च । तन्निरासार्थं प्रतिज्ञायाम् अस्मदादिपदम् । सिद्धसाधनपरिहाराय अवान्तरेति । द्रव्यत्वेन तां परिहर्तुं द्रव्येति । आकाशनिवारणाय चतुर्दशेति । जातिद्वारा भेदं संसाध्य साक्षाद्भेदं साधयति - आत्मशब्द इति । बहुशब्दवाचक इत्यर्थः । अन्यथेशानीशवाचकत्वेन सिद्धसाधनता स्यादिति । कालादिशब्दनिवृत्तये आत्मेति । अनुकूलप्रतिकूलवातव्याघ्रादिचलनानामदृष्टजन्यत्वात्तस्य चात्मसमवेतत्वेन खतोऽसम्बन्धाश्रयव्यापिपरिच्छिन्नत्वे तदनुपपत्तिरित्याशङ्क्याश्रयद्वारा सम्बन्धं घटयितुं व्यापकत्वं साधयति-मच्छरीरेतराणीति । तत्तदात्मसंयुक्तत्वेन सिद्धसाधनतापरिहाराय मदिति । क्रमेण संयोगे सिद्धसाधनतापरिहाराय युगपदिति द्रष्टव्यम् । ईशस्य परिच्छिन्नत्वे सर्वनिमित्तानुपपत्तिमाशङ्कयाह - ईशोऽपीति । आत्मनो नित्यत्वे आमुष्मिकफलभोगासम्भवेन कृतहानिरकृताभ्यागम श्वेत्याशङ्कयाह - स नित्य इति । संख्यादिपञ्चगुणसहिता बुद्ध्यादयो नव गुणाः । * ( मनोलक्षणम्, तत्र प्रमाणञ्च ) मूर्तत्वे सति सर्वदा स्पर्शशून्यं मनः । सुखादिज्ञानमिन्द्रियजम्, अनित्यज्ञानत्वात् रूपज्ञानवदिति तत्र प्रमाणम् । मनोऽणु, आत्मसंयोगित्वे सति निरवयवत्वात्, परमाणुवदिति मूर्तत्वं तस्य सिद्धम् । अजसंयोगनिराकरणात् न सर्वगतेन व्यभिचारः । तत्संख्याद्यष्टगुणकम् । इति प्रमाणमञ्जर्यां द्रव्यपदर्थः । [ब. टी.] मूर्तत्वे सतीति । कालादावतिव्याप्तिं वारयितुं सत्यन्तम् । घटादावतिव्याप्तिवारणाय विशेष्यभागः । प्रथमक्षणे घटादावेवातिव्याप्तिवारणाय सर्वदेति । सुखेति । लौकिकसुखसाक्षात्कार इत्यर्थः । अनुमितौ बाधवारणाय साक्षात्कार इति अलौकिक सुखसाक्षात्कारे चक्षुरादिजन्ये बाधवारणाय लौकिकेति । रूपादिसाक्षात्कारेऽर्थान्तरवारणाय सुखेति । इन्द्रियत्वेनेन्द्रियजन्यत्वमुद्देश्यसिद्धये साध्यम् । अनित्यसाक्षात्कारत्वादित्यर्थः । ईश्वरज्ञाने व्यभिचारवारणाय अनित्येति । कालादौ व्यभि - चारवारणाय सत्यन्तम् । घटादौ व्यभिचारवारणाय विशेष्यभागः । इति प्रमाणमञ्जरीव्याख्याने द्रव्यपदार्थस्समाप्तः । १ तत्र देशे इति ज, ट. २ पदमिदं नास्ति ट पुस्तके. ३ मनोद्रव्यमित्यधिकं व पुस्तके. ४ पदार्थ उक्त इति मु. ५ प्रथमे इति च. ६ पदमिदं नास्ति च पुस्तके. ७ इति द्रव्यपदार्थ इति छ.

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120