Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 50
________________ निरूपणम्] टीकात्रयोपेता व्यभिचारवारणार्थम् अनित्यत्वे सतीत्युक्तम् । अनित्यत्वे सत्यचाक्षुषनक्षत्रादिगतिकर्मणि व्यभिचारवारणार्थम् प्रत्यक्षपदम् ।। [वा. टी.] ननु परिच्छिन्नत्वात्तस्य तदनन्तकार्योपादानसाक्षात्कृतत्वं न सम्भवतीत्यत आहतज्ज्ञानमिति । संयोगनिवारणाय नित्येति । अत एव नित्यगुणत्वादेवेत्यर्थः । नन्वाविद्यको जीवपरमात्मभेदो न तु पारमार्थिकः । परमात्मनश्च सिद्धत्वाद्यर्था प्रमाणोक्तिरित्याशय शुद्धचैतन्यरूपे ब्रह्मण्यविद्यायोगाज्जीवाश्रयत्वे चेतरेतराश्रयापातात्तात्विक एव भेद इत्याशयवान् तत्र प्रमाणमाहउत्तरत्रेति । अत्र भोगपदेन भुज्यत इति भोग इति व्युत्पत्त्या सुखं दुःखं वा विवक्षितम् । नोक्तलक्षणो भोगः, तदुक्तावितरेतराश्रयापत्तेः । तथा हि-सिद्धेऽनीशज्ञाने तन्निष्ठसुखादिसाक्षास्काररूपभोगसिद्धिः । तत्सिद्धौ च तदाश्रयत्वेनानीशज्ञानसिद्धिरिति। कृशोऽहम् , स्थूलोऽहमिति प्रत्ययाच्छरीरादेरात्मत्वमाशङ्कय निराचष्टे-न कार्याणीति । कार्याणीति शरीरतदवयवाः। विपक्षे च शरीरादेराश्रयस्य नष्टत्वेन जन्मान्तरानुभूतसंस्काराभावेन तज्जन्यस्मृतेरयोगादुत्पन्नस्य शिशोः स्तन्ये प्रवृत्तिरेव न स्यात् इति बाधकस्तर्कः। सामानाधिकरण्यप्रत्ययस्तु ममेदं शरीरमिति भेदग्राहिणा प्रमाणभूतेन प्रत्ययेन बाधित इत्यप्रमाणम् । काणोऽहं बधिरोऽहमित्यादिप्रत्ययात्कार्यत्वहेतोरप्रयोजकत्वमाशङ्कमान इन्द्रियाण्येवात्मेति मन्यते । तं प्रत्याह-न श्रोत्रादीति । तत्त्वे वा य एवाहं रूपमद्राक्षम् , स एवाहं गन्धं जिघ्रामि इत्यैक्यावलम्बः प्रत्ययो न भवेत् । रूपगन्धग्राहकयोभिन्नत्वादित्यर्थः । घटेऽतिव्याप्तिपरिहाराय अचाक्षुषेति । आत्मनिवारणाय अनित्येति । (जीवैकत्वनिरासः, जीवस्य सर्वगतत्वञ्च ) अस्मदाद्यात्मा द्रव्यत्वावान्तरजातिमान् , चतुर्दशगुणवत्वात्, उदकवत्; आत्मशब्दोऽनेकवाचकः, आत्मवाचकत्वात् , तेच्छब्दवदिति नानात्वं सिद्धम् । मच्छरीरेतरैमूर्तानि मदात्मयुझिं, मूर्तत्वान्मच्छरीरवदिति सर्वगतत्वं तस्य। ईशोऽपि सर्वगतः, आत्मत्वाद्देहिवत् । स नित्यः, सर्वगतत्वात् कालवत्। स बुद्धयादिचतुर्दशगुणवान् । [ब. टी. ] जीवैकत्ववादिनं प्रत्याह-अस्मदादीति । ईश्वरे भागासिद्धिं वारयितुम् अस्मदादीति। तावता जीवपक्षः। द्रव्यत्वादिनार्थान्तरवारणाय द्रव्यत्वावान्तरेति । ज्ञानवत्वेनाथर्थान्तरभङ्गाय जातीति । आकाशे व्यभिचारभङ्गाय चतुर्दशेति । चतुदेशगुणविभाजकोपाध्याधाराधारत्वादित्यर्थः । तेन चतुर्दशसंयोगवत्याकाशे न व्यभिचारः । चतुर्दशत्वं दशत्वाघटितसंख्या, तेन न चतुर्भागवैयर्थ्यम् । यद्यपि य एव चतु १ निरासार्थमिति ज, ट. २ अचाक्षुषीति ज, अचाक्षुष इति ट. ३ अभावायेति ज, ट. ४ भस्मदादीत्यारभ्य उदकवदित्यम्ता पजिर्नास्ति घ पुस्तके. ५ तदिति नास्ति । पुस्तके. ६ सिद्धमिति नास्ति ख, ग, घ, मु. पुस्तकेषु. ७ इतराणीति ख, ग. ८ सदात्मेति ख, मु. ९संयुनीति क, ख. १० वदिति इति क, ख. ११,१२ वारणायेति च,

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120