Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम्]
टीकात्रयोपेता मित्तत्वात्तदवस्थो दोष इति वाच्यम् । एकैकादृष्टस्य सर्वकार्याहेतुत्वादिति । प्रत्येकावृत्तिश्च धर्मो न समुदायवृत्तिरिति न्यायात् , साधनवैकल्यपरिहाराय कार्येति । न हि कालोऽनन्तपदार्थपतितनित्यवर्गजनकः । यत्किञ्चित्कार्यजनके घटादौ व्यभिचारवारणाय अनन्तेति । कालवदिति। कालो द्रव्यं दृष्टान्तः, न तु कालोपाधिः एकैककालोपाधिः, समस्तकार्याजनकत्वात् । विप्रतिपन्नमिति । अस्मदादिकर्तृकमित्यर्थः । नित्ये बाधवारणाय कार्यमिति । उद्देश्यसिद्धये ईश्वर इति । तथैव ज्ञानेति । सम्प्रतिपन्नवदिति । क्षित्यादिवदित्यर्थः । न च दृष्टान्तासिद्धिः, क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदित्याद्यनुमानेनेश्वरज्ञानजन्यत्वस्य सिद्धिः । एवञ्चानन्तकार्यहेतुत्वादिति पूर्वोक्तो हेतु सिद्धः। अन्ये तु विप्रतिपन्न कार्यम् अङ्कुरादि विवक्षितज्ञानजं, खोपादानगोचरापरोक्षज्ञानजं सम्प्रतिपन्नं कार्य घटादीत्याहुः । तेषां मते घटादिकार्ये ईश्वरज्ञानजन्यत्वं मानान्तरेण सेत्स्यतीति निष्कर्षः।
[अ. टी.] आत्मत्वस्यानित्यविशेषगुणवद्वृत्तित्वं सिद्धमित्यत उक्तम् नित्येति । नित्यवृत्ति नित्यविशेषवद्वृत्तीति चोक्तौ तथेति गुणग्रहणम् । पृथिव्यादिजातौ व्यभिचारवारणाय
आत्मग्रहणम् । “यथाकारी यथाचारी" इत्याद्यागमादात्मबहुत्वं सिद्धमित्यात्मत्वधर्मसिद्धिः । अपर्यवसानवृत्त्येशज्ञानस्य नित्यत्वं सिद्धम् , साक्षादपि तत्साधयति-ईशज्ञानमिति । कर्मव्यक्तीनां कार्यहेतुत्वेऽप्येकस्यानन्तकार्यहेतुत्वाभावादनन्तपदेन तत्र व्यभिचारनिरास इति प्रयोगात्तस्येशज्ञानस्य नित्यत्वं सिद्धमित्याह-इति तज्ज्ञानमिति । हेतोरसिद्धिनिरासार्थ साधनमाह-विप्रतिपन्नमिति। विप्रतिपन्नं कार्यमकुरादि विवक्षितम् । खोपादानसाक्षात्काररूपज्ञानं तज्जन्यं, सम्प्रतिपन्नं कार्य घटादि, तत्कुलालादेस्तदुपादानमृदादिसाक्षात्कारजन्यम् । जीवानामङ्कुरादिनिमित्तकारणानुष्ठेयधर्मादिज्ञानेन परम्परयाकुरादेर्जन्यत्वेन सिद्धसाधनताव्युदासार्थम् विवक्षितेति। [वा. टी.] विभुत्वसाधादात्मानं चिन्तयति-बुद्धीति । बुद्ध्याश्रयत्वं बुद्ध्याश्रयत्वात्यन्ताभावानधिकरणत्वम् । तेन मुक्तात्मनि नातिव्याप्तिः । घटनिवारणाय बुद्धीति । असम्भवनिवृत्तये आश्रय इति । सिद्धसाधनतापरिहाराय नित्येति । विशेषगुणश्चात्र ज्ञानादिः । ईशज्ञानस्य ज्ञानत्वादेवानित्यत्वे प्राप्ते नित्यत्वं साधयति-ईशेति । घटादावतिव्याप्तिपरिहाराय अनन्तेति । अनन्तशब्दश्च सर्वशब्दार्थः । ननु तर्हि हेत्वसिद्धिः, अस्मदादिज्ञानजन्यस्य घटादेस्तदजनकत्वादत आह-विप्रतिपन्नमिति । अस्मदादिज्ञानजन्यघटादिविप्रतिपन्नशब्दार्थः । विवक्षितज्ञानमीशज्ञानम्, सम्प्रतिपन्नत्वात् , घणुकादिवत् । यथा घणुकस्योपादानकारणसाक्षात्कृतत्वेनेशज्ञानस्य घणुकादिनिमित्तत्वम्, तथा घटादेरपीति नासिद्धिः ।
१ कार्यहेतुत्वाभावादिति च. २ प्रत्येकवृत्तिरिति च. ३ इत्यर्थ इति नास्ति च पुस्तके. ४ तजन्यत्वसिद्धेरिति च. ५ हेतुस्सिद्ध इति झ. ६ चोक्ते इति ज, ट. ७ अपनोदनार्थमिति ज, ट. ८ धर्मीति ज, ट. ९ वृत्तित्वाज्ज्ञानस्येति झ. १० एकस्येति नास्ति झ पुस्तके. ११ तत्र ज्ञानमिति झ. १२ कार्यमिति नास्ति झ, ट. पुस्तकयोः, १३ पदमित्यधिकं ज, ट, .

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120