Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
३४
प्रमाणमञ्जरी
[ द्रव्य
कार्यमिति । पूर्वमाकाशे सर्वशब्दाश्रयत्वेन व्यापकत्वं सूचितम् | दिक्कालयोश्चं सर्वग - तत्वं लक्षणया सूचितम् । तत्साधयति - आकाशेति । मनसि व्यभिचारभङ्गाय सत्यन्तम् । घटादौ व्यभिचारवारणाय अस्पर्शवदिति । गुणादौ व्यभिचारवारणाय द्रव्यत्वादिति । सर्वदा स्पर्शरहितत्वं बोध्यम् ।
[अ. टी.] दिक्कालयोस्समानधर्मत्वनिरूपणप्रसङ्गात्समानधर्मान्तरमाह - विप्रतिपन्नमिति । परत्वापरत्वैव्यतिरिक्तं सर्वगतत्वं दिक्काललक्षणे प्रक्षिप्तम् । तत्र प्रमाणमसम्भवपरिहारार्थमाह-आकाशेति । आकाशस्यापि सर्वशब्दाश्रयत्वेन सर्वगतत्वस्य सूचितत्वात्साधनं युक्तम् । द्रव्यत्वं पृथिव्यादौ व्यभिचरति, अतः अस्पर्शपदम् । मनस्यस्पर्शद्रव्यत्वेऽपि न सर्वगतत्वमित्यत आह- मनोव्यतिरिक्तत्वे सतीति । मनोव्यतिरिक्ते स्पर्शशून्ये क्रियादौ व्यभिचारनिरासार्थं द्रव्यग्रहणम् ।
1
[ वा. टी. ] इह जात इदानीं जात इति व्यपदेशात्तयोः सर्वकार्यनिमित्तत्वमाह – विप्रतिपन्नमिति । स्वसमवेतसंयोगादिकार्यातिरिक्तत्वं विप्रतिपन्नशब्दार्थः । सिद्धसाधनतापरिहाराय दिक्कालेति । मूर्तत्वात्संयोगाद्यनुपसङ्क्रामत्वमत आह— आकाशेति । समानन्यायत्वादाकाशस्यापि ग्रहणम् । मनस्यतिव्याप्तिपरिहाराय मन इति । घटनिवारणाय अस्पर्शवदिति । रूपेऽतिव्याप्तिपरिहाराय द्रव्येति । संख्यादिपञ्चकमेव ।
*
( आत्मनिरूपणम् तद्विभागश्च )
बुद्ध्याश्रय आत्मा । स द्वेधा - ईशानीशभेदात् । पूर्वत्र प्रमाणम्आत्मत्वं नित्यंविशेषगुणवद्वृत्ति, आत्मजातित्वात्, सत्तावदिति । ईशज्ञानं नित्यम्, अनन्तकार्यहेतुत्वात्, कालवदिति तज्ज्ञानं नित्यम् । विप्रतिपन्नं सर्व कार्य विवक्षितज्ञानजैम्, कार्यत्वात्, सम्प्रतिपन्नवदित्यनन्तहेतुत्वं सिद्धम् ।
[ब. टी.] आत्मत्वमिति । वृत्तिमत्त्वे गुणवद्वृत्तिमत्त्वे विशेषगुणवद्वृत्तिमत्त्वे वार्थान्तरे व्यभिचारवारणाय नित्येति । नित्यपरिमाणवद्वृत्तित्वेनार्थान्तरभङ्गाय विशेषेति । नित्यो यो विशेषपदार्थः तद्वृत्तित्वेनार्थान्तरवारणाय गुणेति । पृथिवीत्वादौ व्यभिचारवारणाय आत्मेति । आत्मघटर्वृत्तिद्वित्वान्यतरत्वादौ व्यभिचारवारणाय जातित्वादिति । न च संसार्यात्मत्वे व्यभिचारः, तस्याजातित्वात् । जातित्वेऽपि वा तद्भिन्नत्वेन हेतुविशेषणात् । अपर्यवसानवृत्त्या ईश्वरज्ञानस्य नित्यत्वं प्राप्तम् । अधुना विशेषतस्साधयति - ईश्वरज्ञानमिति । जीवज्ञाने बाधवारणाय ईशेति । ईशसंयोगे बाधवारणाय ज्ञानमिति । अदृष्टे व्यभिचारवारणाय अनन्तेति । न चादृष्टस्य सर्वोत्पत्तिमन्नि
१ सर्वेति नास्ति च पुस्तके. २ चेति नास्ति च पुस्तके. ३ लक्षणयोरिति छ. ४ त्वाद्यतिरिक्तमिति ज, ट. ५ कालादीति ज, ट. ६ इतीति ज, ट. ७ उक्तमिति ज, झ. ८ भेदेनेति ग. ९ नित्यसमवेतेति १० सर्वकार्यमिति मु. १४ वृत्तित्वान्यतरेति च.
घ.
११ जन्यमिति ग.
१२ अर्थान्तरवारणायेति च.
१३ वृत्तिमत्वे चेति च.

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120