Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 36
________________ निरूपणम् ] टीकात्रयोपेता २३ [वा. टी.] ननु भवत्पक्षेऽपि नाङ्गं धारयतीत्याह - अत एवेति । अत एवोक्तदूषणसाम्यादेव । तथा चाभावे रूपं भवति । तत्राश्रयासिद्धिं तावत्परिहरति - आलोकेति । अपिरेवार्थो नञन्वितः । आलोकाभावस्तम इति वदतो मते नैवाश्रयासिद्धिरित्यन्वयः । हेतुमाह - आरोपितेति । विशेषादर्शनसध्रीचीनं सामान्यदर्शनमारोपे निमित्तम् । तत्प्रकृतेऽप्यस्तीति न किञ्चिदनुपपन्नम् । अनेन खमते कृष्णाकारप्रतीतेरप्युपपत्तिस्सूचिता । प्रतिवादिनस्तु आरोपाभावात्कृष्णप्रतीतिर्न भवत्येवेति भावः । विधिमुखमप्यसिद्धम् । न हि तत्राप्रयोग इत्येवंविधः, अन्तर्णीतनञर्थेनापि पदेन प्रयोगसम्भवात् । प्रलयादिशब्दवत्खातन्त्र्यमप्यसिद्धम्, आलोकग्रहणे सत्येव तमोग्रहणात्, अन्यथा जात्यन्धस्य तमोबुद्धिप्रसङ्गादिति । खमतदायर्थं परमतं प्रतिक्षिपति - न द्रव्यमिति । असत्येवालोक इति । सत्यालोकाभाव इति यावत् । मतान्तरेणाश्रयासिद्धिं परिहरति - कृष्णरूपमिति । अस्मिन् मते आलोकात्यन्ताभाव इति भावसप्तमी । रसगन्धगुरुत्वहीनास्त एव गुणाः । * ( वायुलक्षणं तद्विभागश्च ) रूपासहचरितस्पर्शवान् वायुः । स नित्यानित्यभेदेन द्वेधा । पूर्वः परमाणुः । उत्तरो द्वेधा- नित्यसमवेतोऽन्यथा चेति । आद्यो द्व्यणुकम् । वायुत्वं नित्यसमवेतवृत्ति, स्पर्शवद्वैतद्रव्यत्वावान्तरजातित्वात् पृथिवीत्ववदिति परमाणुयणुकयोस्सिद्धिः । उत्तरश्शरीरादिभेदेन त्रिधा भिद्यते । वायवीयाः परमाणवः पारम्पर्येण शेरीरारम्भकाः स्पर्शवत्परमाणुत्वात् पृथिवीपरमाणुवदिति शरीर सिद्धिः । तदयोनिजं वार्युकार्यत्वात् त्वगिन्द्रियवत् इति । वायवीयाः परमाणवः पारम्पर्येणेन्द्रियारम्भकाः स्पर्शवस्परमाणुत्वात् तेजः परमाणुवदिति त्वगिन्द्रियसिद्धिः । तदन्यो विषयः । [ब. टी.] रूपासहचतेरिति । घटादावतिव्याप्तिवारणाय रूपासहचरितेति । आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति । रूपात्यन्ताभावाधिकरणत्वे सति स्पर्शा - त्यन्ताभावानधिकरणं वायुरित्यर्थः । स्पर्शवदिति । घटसंरिदन्यतरत्वे व्यभिचारवारणाय जातित्वादिति । घटत्वे व्यभिचारवारणाय द्रव्यत्वावान्तरेति । द्रव्यस्वसाक्षाद्व्याप्येत्यर्थः । पृथिवीत्वसाक्षाद्व्याप्यं घटत्वं भवत्येवेत्यत आह-द्रव्यत्वेति । आत्मत्वे व्यभिचारवारणाय स्पर्शवदिति । घटजैलद्वित्वे व्यभिचारवारणाय जातिपदार्थान्तर्गतनित्यत्वभागः । विशेषत्वादिना रूपेण द्रव्यत्वसाक्षाद्व्याप्यविशेषादौ व्यभिचार १ नित्यानित्यभेदभिन्न इति क २ गतत्वे सतीति मु. ३ उत्तरस्त्रेधा शरीरादिभेदेनेति मु. ४ वायुपरमाणव इति क, ख, ग, म. ५ कदाचिच्छरीरेति ग. ६ तेजः परमाणुवदिति मु. ७ वायुशरीरेति ग. ८ वायुत्वादिति ख, घ, मु. ९ कदाचिदिति ग. १० रूपादाविति च. ११ पटेति च १२ घटस्थूलजलेति च,

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120