Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
२७
निरूपणम्]
टीकाप्रयोपेता भेरीशब्दो मया श्रुत इति धीस्तु भेरीजन्यशब्दप्रयोज्यशब्दविषयकत्वविषया । बधिरस्य तु शब्दग्रहो न भवति, तदुपग्राहकादृष्टाभावात् । श्रूयमाणशब्दातिरिक्ता इति पक्षार्थः । श्रूयमाणशब्देनांशतः सिद्धसाधनवारणाय श्रूयमाणातिरिक्ता इत्युक्तम् । रूपादिना शब्दत्वेन च बाधभङ्गाय शब्दा इति । श्रृंयमाणशब्दस्य य आश्रयस्य आश्रयो येषां त इत्यर्थः । अर्थान्तरवारणाय श्रूयमाणेति। मया श्रूयमाणोऽयं ककारः तदधिकरणवृत्तय इत्यर्थः । न च ते ते शब्दाः तत्तदाकाशवृत्तयस्सन्त एतत्ककाराश्रयाभिन्नाकाशे वर्तन्तामिति वाच्यम्, गौरवात् , तेषां ग्रहापत्तेश्च । (?) स्वस्वाश्रयत्वे आश्रयाश्रयत्वे शब्दाश्रयाश्रयत्वे चार्थान्तरवारणाय श्रूयमाणेति । __ [अ. टी.] शब्दस्य समवेतत्वसाधनेऽष्टद्रव्यान्यतमद्रव्याश्रयत्वेन सिद्धसाधनता बाधो वा स्यादत उक्तम् अष्टद्रव्यातिरिक्तति । अष्टद्रव्यव्यतिरिक्तत्वमात्रसाधने स्फुटा सिद्धसाधनता, ततः समवेतपदम् । सत्वादित्युक्ते रूपादौ व्यभिचारस्स्यादतः श्रोत्रंग्राह्यत्वादित्युक्तम् । श्रोत्रग्राह्यत्वादित्युक्ते शब्दान्योन्याभावे व्यभिचारस्स्याँदतः सत्त्वे सतीति । सत्त्वशब्देन भावत्वं विवक्षितम् । ननु शब्दानामनेकत्वेन रूपाँद्याश्रयघटादिवदाकाशानेकत्वं प्राप्तम्, तत्राह-विप्रतिपन्ना इति। एकशब्दश्रवणकालेऽश्रूयमाणाश्शब्दाः विप्रतिपन्नाः । शब्दाश्रया इत्युक्ते शब्दानां शब्दाश्रयत्वाभावेन बाधस्स्यादत उक्तम् शब्दाश्रयाश्रया इति । तथापि तेषां यो भिन्न आश्रयस्तदाश्रयत्वे सिसाधनता, तत्परिहारार्थं श्रूयमाणेति । अतस्सर्वशब्दानामेकाश्रयाश्रितत्वादाकाशैकत्वं सिद्धम् ।
[वा. टी.] परिशिष्टं भूतं स्पष्टयति-शब्दवदिति । भावत्वे सति शब्दात्यन्ताभावाधिकरणमित्यर्थः । सिद्धसाधननिवृत्तये अष्टद्रव्यातिरिक्तेति । एतच्चानुमानं सामान्यरूपत्वेन सोपाधिकमिति पदान्तरप्रक्षेपोत्क्षेपाभ्यां व्याख्येयम् । तद्यथा-शब्दोऽष्टद्रव्यातिरिक्तद्रव्यसमवेतः, गुणत्वे सति श्रोत्रग्राह्यत्वात् , व्यतिरेके शब्दत्ववति न चाप्रसिद्धविशेषणत्वम् (?) शब्दस्य तावत्कर्मत्वासहचरितसामान्यैकसमवायित्वेन गुणत्वं प्रसिद्धम् , गुणत्वेनाश्रयस्यावश्यम्भावात्पार्थिवाणुगुणानां यावद्व्यभावित्वेन वा श्रोत्रग्राह्यत्वेन वा स्पर्शवदनाश्रयत्वाद्विशेषगुणत्वेन कालाद्यसमवेतत्वानियतबाह्येन्द्रियग्राह्यत्वेनात्माश्रयत्वानुपपत्तेरतिरिक्तस्य सामान्यतः प्रसिद्धत्वादिति । विशेषगुणत्वञ्च सामान्याश्रयत्वे सति नियतबाबै केन्द्रियग्राह्यत्वान्मन्तव्यम् । शब्दाभावनिवृत्तये गुणत्वेति । रूपनिवृत्तये श्रोत्रेति । भूतत्वात्प्राप्तमनेकत्वं वारयति-विप्रतिपन्ना इति । विप्रतिपन्नाः श्रूयमाणेतराः । भिन्नाश्रयत्वेन सिद्धसाधनतापरिहाराय श्रयमाणेति । बाधनिवारणार्थम् आश्रयेति ।
१ इत्यर्थ इति च. २ इत आरभ्य श्रूयमाणेतीति पर्यन्तं व्यतिक्रमः पतीनां समुपलभ्यते च पुस्तके. ३ भाश्रयत्वेति ट. ४ पदमिदं नास्ति झ पुस्तके. ५ अत उक्तमिति ज, ट. ६ रूपाश्रयेति ट. ७ तेषां शब्दानामिति ज, ट. ८न सिद्धसाधनता इत्यत उक्तमिति ज, ट.

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120