Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 43
________________ प्रमाणमञ्जरी [द्रव्य[ब. टी.] विवक्षितेति । विवक्षितं दिकृतभिन्नं यत्परत्वं तदसमवायिकारणाश्रयत्वे सति सर्वगतो व्यापकः काल इत्यर्थः । आकाशादावतिव्याप्तिं भञ्जयितुं सत्यन्तम् । पिण्डेऽतिव्याप्तिभङ्गाय सर्वगतत्वं विशेषणम् । दिश्यतिव्याप्तिभंङ्गाय विवक्षितेति । शब्दासमवायिकारणाश्रये गगनेऽतिव्याप्तिभङ्गाय परत्वेति । परत्वनिमित्तकारणादृष्टाद्याश्रये आत्मन्यतिव्याप्तिं भञ्जयितुम् असमवायीति। विप्रतिपन्नमिति । शरीरादिमूतोसंयुक्तमित्यर्थः। विप्रतिपन्नत्वरूपपक्षतावच्छेदकधर्मावच्छेदेन साध्यं सिध्यत् कालमादायैव सिध्यति, अन्यथा पिण्डसंयुक्तत्वेनार्थान्तरत्वात् । रूपादौ बाधवारणाय मन इति। आकाशसंयुक्तत्वेनॉर्थान्तरं वारयितुम् आश्रयान्तम् । दिशान्तिरवारणाय विवक्षितेति । शब्दासमवायिकारणसंयोगाश्रयगगनादिनार्थान्तरवारणाय परस्वेति । परत्वनिमित्तादृष्टादिवदात्मनार्थान्तरवारणाय असमवायीति । तादृशपिण्डसंयुक्तत्वेनात्मनि साध्यसिद्धिः। अत्रेदं बोध्यम्-परत्वापरत्वे न यावद्रव्यभाविनी, किन्त्वपेक्षाबुद्धिविशेषजन्ये । तन्नाशादिनाश्ये चोत्पन्नेन परत्वेन ज्येष्ठांदिव्यवहारः। यद्वा-बहुतरतपनपरिस्पन्दान्तरितजन्मत्वादिनायं व्यवहारः । न च तेनैव परत्वादिव्यवहारोपपत्तौ किं परत्वादिनेति वाच्यम् । एतस्य विचारस्य विस्तरभयेनात्रानवसरः, दुस्स्थानत्वात् । [अ. टी.] क्रमप्राप्त कालं निरूपयति-विवक्षितेति । विवक्षितं परत्वं खंज्येष्ठत्वमपरस्यापि कनिष्ठत्वस्योपलक्षणम् , तस्य यदसमवायिकारणम् । आदित्यपरिस्पन्दा अहोरात्रलक्षणा आदित्यसमवेतास्तावत्तन्यूनत्वाधिक्य कृते विवक्षिते परत्वापरत्वे । तत्र देवदत्तादिपिण्डसंयुक्तं सत् यदादित्यसंयोगि पिण्डानामादित्यगतक्रियोपनायकं तस्य यः पिण्डसंयोगः, सोऽयमसमैवायिकारणत्वेन विवैक्षितः, तदाश्रयस्स काल इत्युक्ते संयोगस्यानेकाश्रयत्वात्पिण्डानामपि कालत्वं स्यात् । अत उक्तम् सर्वगत इति । सर्वगतत्वांकाशात्मेश्वरेषु विद्यत इति तद्व्यवच्छेदोर्थम् असमवाय्याश्रयत्वे सतीत्युक्तम् । एवमपि संयोगासमवाय्याश्रयत्वेन तेष्वेव व्यभिचारस्स्यादत उक्तम् परत्वेति । दिशि व्यभिचारवारणीय विवक्षितपदम् । विप्रतिपन्नं शरीरादि । मूर्तासंयुक्तमाश्रयसंयुक्तमसमवाय्याश्रयसंयुक्तश्वेत्युक्ते सुखाद्यसमवायिमनस्संयोगाश्रयात्मसंयुक्तत्वेन सिद्धसाधनंत्वं स्यादत उक्तम् परत्वेति । परत्वासमवाय्याश्रयदिक्संयुक्तत्वेन सिद्धसाधनताव्युदासाथ विवक्षितपदम् । आत्मा विवक्षितपरत्वासमवाय्याश्रयपिण्डसंयुक्तः । मनसोऽपि पिण्डसंयोगेन सिद्धसाधनत्वं नार्शङ्कनीयम् , विप्रतिपन्नपदेन व्युदासात् ।। १ वारयितुमिति च. २ सर्वगतेति च, ३, ४ वारणायेति च. ५ अतिव्याप्तिवारणायेति च. ६ अर्थान्तरं स्यादिति च.७ इतः पतिद्वयं च पुस्तके नास्ति. ८ अदृष्टादीति छ. ९ दुस्स्थत्वादिति च.१० स्वेति नास्ति ज, ट. पुस्तकयोः. ११ गतेति नास्ति ट पुस्तके. १२ असमवायित्वेनेति ज, ट. १३ विवक्षितस्स यस्तदेति ज. १४ जात्याकाशेति ज, ट. १५ व्यवच्छेदायेति ज, ट. १६ संयोगाश्रयत्वेनेति ज, ट, १७ अतः परत्वग्रहणमिति ज, ट. १८ वारणार्थमिति ज, ट. १९ समवान्याश्रयेति झ. २. साधनतेति म, द. २१ म्युदासायेति ज, ट. २२ नाशयमिति ज, ट.

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120