Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम् ]
टीकात्रयोपेता
२५
चोक्तरूपं साध्यं तत्र, अत आह— इन्द्रियत्वादिति । द्रव्यप्रत्यक्षजनकत्वादित्यर्थः । इन्द्रियत्व पुरस्कारो विवक्षित इति वा । तेन ने कालादावुक्तासाधारण्यघटितसाध्याभावेऽपि व्यभिचारः । मूर्तत्व' इति । मनसि साध्यमस्ति मूर्तत्वे सति सर्वदा स्पर्शशून्यत्वमुपाधिश्चास्ति । पक्षे च साधनवति नास्तीति साधनाव्यापकः । पक्षेऽपि प्रथमक्षणे स्पर्शशून्यत्वमस्तीति साधनव्यापकतानिराकरणाय सर्वदेत्युक्तम् । सर्वदा स्पर्शशून्यत्वं गुणादौ, न च साध्यमिति समव्याप्तिभङ्गभङ्गाय सत्यन्तम् । कालादौ परिमाणवत्वे सति सर्वदा स्पर्शशून्यत्वमस्ति न च साध्यमिति दोषतादवस्थ्य दुस्थितायै मूर्तत्वमवच्छिन्नपरिमाणत्वरूपमुक्तम् । खमतमाह - विप्रतिपन्न इति । अत्रानुकूलतै क बहिर्द्रव्यप्रत्यक्षताप्रयोजकोद्भूतरूपत्वादुत्थाप्यो बोध्यः । ननु शरीराद्यारम्भकत्वानुमानेषु पृथिवीपरमाण्वादिपक्ष केष्वंशतो बाधः, घटारम्भकपरमाणूनां शरीराद्यनारम्भकत्वादिति चेत्-न; तेषामपि शरीराद्यारम्भणयोग्यताया अनुद्भूतरूपाद्युत्पत्तिदशायां घ्राणारम्भेणोपपत्तेः । न चोद्भूतरूपादिजलपरमाण्वादिना कथमनुद्भूतरूपादिरसनाद्यारम्भ इति वाच्यम् । तप्तकटाहतैर्लंतेज इव निमित्तभेदवशेन विजातीयारम्भकत्वस्यापि स्वीकारात् । यद्वा सर्वेऽपि परमाणवोऽनुद्भूतरूपा एव निमित्त भेदवशेन विजातीयारम्भकाः, यद्वा पृथिवीत्वं शरीरारम्भकवृत्ति स्पर्शवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातित्वादित्यनुमाने तात्पर्यमिति दिक् ।
[अ.टी.] सकेन गृह्यत इत्यपेक्षायां पूर्वपक्षं तावदाह - त्वगिन्द्रियमिति । घटादिग्राहकत्वेन सिद्धसाधैनताव्यवच्छेदार्थम् अरूपिपदम् । स्पर्शग्राहकत्वेनोक्तदोषव्युदासार्थं द्रव्यपदम् । घ्राणादौ व्यभिचारवारणाय द्रव्यग्राहकेति पदम् । चक्षुषा व्यभिचारवारंणार्थम् अरूपित्वे सतीत्युक्तम् । अरूपित्वादित्युक्ते रूपादौ व्यभिचारः, तत इन्द्रि - यत्वादित्युक्तम् । अरूपीन्द्रियत्वादित्युक्ते श्रोत्रे " व्यभिचारस्स्यात्ततो द्रव्यग्राहकेत्युक्तम् । अरूपित्वे सति द्रव्यग्राहकत्वादित्युक्ते चक्षुराद्यनुमाने व्यभिचारस्स्यात्तते इन्द्रियपदम् । सोपधिकोऽयं हेतुरन्यथासिद्ध इति परिहरति-नेति । गुणादेरस्पर्शवत्वेऽप्यरूपिद्रव्यग्राहकत्वाभावात्साध्याव्यापकत्वं मा भूदिति मूर्तत्वे सतीत्युक्तम् । मूर्तत्वादित्युक्ते पक्षेऽपि तद्भावेन साधनव्यापकता स्यात्तेनास्पर्शवत्त्वग्रहणम् । अथवा मूर्तत्वेऽपि चक्षुरादावुक्तसाध्याभावादेतदुक्तम् । ननु शब्दस्यारूपिद्रव्यग्राहकत्वेऽपि मूर्तत्वे सत्यस्पर्शवत्त्वाभावेन सार्थ्यांव्यापकत्वं स्यात् । साधनाव्यापकत्वे सति साध्यसमव्यापक श्चोपाधिः । मैवम्; ग्राहकशब्देन साक्षात्कारजनकत्वस्य विवक्षितत्वात् । मूर्तत्वे सति स्पर्शशून्यत्वं पाकावस्थायां
१ नेति नास्ति च पुस्तके. २ असाधारणाघटितेति च. ३ अनुकूलस्तर्क इति च. ४ घटादीति च. ५ आरम्भोपपत्तेरिति च. ६ तैलस्थेति च. ७ अनुद्भूता एवेति च. ८ स्पर्शवद्वृत्तीति नास्ति च पुस्तके. ९ साधनत्वेति ज, ट. १० निरासार्थमिति ज, ट ११ श्रोत्रेणेति ज, ट १२ अत इति ज, ट. १३ सोपाविहेतुरिति ट १४ असाध्यव्यापकत्वमिति ज, ट.
प्रमाण • ४

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120