Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
२४ ' प्रमाणमखरी
[द्रव्य वारणाय जातिपदार्थान्तर्गतानेकत्वभागः । प्रतिज्ञातार्थविचारः पूर्ववत् । वायुकार्यत्वाविति । अयोनिजत्वं योनि विना जायमानत्वम् । तेन वायुपरमाणौ व्यभिचारवारणाय कार्यत्वादिति। [अ. टी.] पृथिव्यादिव्यवच्छेदार्थ रूपासहचरितेति पदम् । जातित्वमवान्तरजातित्वञ्च घटत्वादौ व्यभिचरतीति द्रव्यत्वपदम् । मनस्त्वात्मत्वयोर्व्यभिचारवारणाय स्पर्शवद्गतेति । स्पर्शवद्गतत्वादित्युक्ते परमाणुगुणादौ व्यभिचारस्स्यादत उक्तं स्पर्शवद्गतजातित्वादिति । एतावत्युक्ते घटत्वादौ व्यभिचारस्स्यादत उक्तम्-द्रव्यत्वेति । त्वगिन्द्रियमेव कुतस्सिद्धम् ? तत्राह-वायवीया इति । इन्द्रियस्य मध्यमपरिमाणत्वेन ध्यणुकाद्यारम्भपूर्वकत्वात् पारम्पर्येणेत्युक्तम् । तदन्यः शरीरेन्द्रियव्यतिरिक्तो वायवीयो विषयः। [वा. टी.] स्पर्शवत्वादिसाधाद्वायुं लक्षयति-रूपेति । घटनिवृत्तये रूपेति । आकाशनिवृत्तये स्पर्शेति । घटत्वादिनिवृत्तये द्रव्येति । मनस्त्वादिपरिहाराय स्पर्शवद्गतेति ।
(वायोः प्रत्यक्षत्वाप्रत्यक्षत्वविचारः) त्वगिन्द्रियम् अरूपिद्रव्यग्राहकम् , अरूपित्वे सति द्रव्यग्राहकेन्द्रियत्वात् मनोवदिति वायोः प्रत्यक्षत्वसिद्धिरिति चेत्-न; मूर्तत्वे सति सर्वदास्पर्शवत्त्वस्योपाधित्वात् । विप्रतिपन्नो वायुरप्रत्यक्षः वायुत्वात् त्वगिन्द्रियवत् । स्पर्शादि नवगुणवान् । [ब. टी.] त्वगिन्द्रियमिति । मनसा सिद्धसाधनवारणाय चक्षुषा बाधवारणाय च त्वगिति । शरीरसहजावरणभूतायां त्वचि अर्थान्तरत्वभङ्गाय इन्द्रियमिति । अरूपिद्रव्यग्राहकत्वन्तु न रूपिद्रव्यग्राहकत्वविरहः, त्वचो घटग्राहकत्वेन बाधात् , वायुग्राहकत्वासिद्धेश्च । किन्तु अरूपि यद्रव्यं तद्राहकत्वमित्यर्थः । आकाशादौ त्वक्पुरस्कार्यगुणाभावेनाग्राहकत्वंसिद्धौ पक्षधर्मताबलेन वायुग्राहकत्वसिद्धिः। घटादिग्राहकत्वेनार्थान्तरवारणाय अरूपीति । रूपात्यन्ताभाववदित्यर्थः । स्पर्शग्राहकत्वेनार्थान्तरवारणाय द्रव्येति। अरूपिंद्रव्यानुमापकत्वेनार्थान्तरवारणाय ग्राहकत्वं विषयजन्यत्वावच्छिन्नप्रत्यक्षजनकत्वं साध्यम् । चक्षुषि व्यभिचारवारणाय अरूपित्वेति । श्रोत्रे व्यभिचारवारणाय द्रव्यग्राहकेति । अनुमानविधया रूपित्वे सति द्रव्यग्राहकं श्रोत्रं भवति । न
१ गताधारगतानेकेति च. २ ध्यपोहार्थमिति ट. ३ चरितपदमिति ज. ट. ४ द्रव्यपदमिति ट. ५ उक्तऽपीति ज.द. ६ वायुप्रत्यक्षवेति ख, ग, घ. ७ स्पर्शशून्यत्वस्येति ग, मु. ८अर्थान्तरमनायेति च. ९ घटादीति च. १० भावेन ग्राहकत्वासिद्धाविति च. ११ रुपिदव्यग्रहमागभाव रूपिद्रग्यग्रहकारणं भवतीत्यधिक च पुस्तके.

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120