Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
२६
प्रमाणमञ्जरी
[ द्रव्य
पार्थिवाणुषु विद्यते, न च साध्यम् । ततो न समव्याप्तिलाभ इत्यत उक्तम् -सदेति । परपक्षं प्रतिक्षिप्य स्वपक्षे प्रमाणमाह - विप्रतिपन्न इति । विप्रतिपन्नो विषयरूपः । स्पर्शसंख्यापरिमाणपृथक्त्व संयोगविभागपरत्वापरत्ववेगांख्या नव गुणाः ।
[वा. टी.] घटादिना सिद्धसाधनवारणाय अरूपीति । स्पर्शे सिद्धसाधनवारणाय द्रव्येति । श्रोत्रे ऽतिव्याप्तिपरिहाराय द्रव्यग्राहकेति । चक्षुष्यतिव्याप्तिपरिहाराय अरूपिग्राहकेति । लिङ्गेऽतिव्याप्तिपरिहाराय इन्द्रियेति । साधनव्याप्तिपरिहाराय स्पर्शेति । आकाशादौ साध्याव्यातिपरिहाराय मूर्तत्व इति । पाकावस्थपरमाणुनिवृत्तये सदेति । यत्राव्यवहितद्रव्यप्रत्यक्षत्वं तत्र तद्गतसंख्यादीनामपि प्रत्यक्षत्वमिति व्याप्तेर्निरवद्यत्वात्प्रकृते च तदभावान्न प्रत्यक्षत्वमिति बाधकस्तर्कोऽप्यनुसन्धेयः । स्पर्शादिसंस्कारान्ता नव गुणाः ।
*
( आकाश निरूपणम् )
शब्दवदाकाशम् । तत्र प्रमाणम् - शब्दोऽष्टद्रव्यातिरिक्तसमवेतः, सत्त्वे सति श्रोत्रग्राह्यत्वात्, शब्दत्ववदिति । विप्रतिपन्नाः शब्दाः श्रूयमाणशब्दाश्रयाश्रयाः शब्दत्वात् श्रूयमाणशब्दवत् इत्येकत्वसिद्धिः ।
[ब. टी.] शब्द इति । पृथिव्यादिसमवेतत्वेनार्थान्तरवारणाय अतिरिक्तान्तम् । पृथिव्याद्यप्यतिरिक्तं भवत्येवेत्यत उक्तम् द्रव्येति । बाधवारणाय अष्टेति । गुणादिसम्बन्धत्वेनार्थान्तरवारणाय समवेत इति । प्रतियोगिनिविष्टत्वाद्द्रव्येति न व्यर्थम् । रूपे व्यभिचारवारणाय श्रोत्रग्राह्यत्वादिति । शब्दध्वंसादौ व्यभिचारवारणाय सत्त्व इति । भावत्व इत्यर्थः । अत्र पक्षधर्मताबलादष्टद्र (व्यत्वा ? व्या) तिरिक्ते द्रव्यत्वं सिध्यति । दृष्टान्ते शब्दत्वेऽष्टद्रव्यातिरिक्तशब्दवृत्तित्वम् । अत्र पृथिवीत्वादिरूपेणाष्टौ द्रव्याण्युभयवादिसिद्धानि ग्राह्याणि । तेनाष्टघटाद्यतिरिक्तपटादिवृत्तित्वेन नार्थान्तरम् । न वा गगनस्य यत्किञ्चिदष्टद्रव्यनिवेशितंतया बाधः । ननु यथा नानारूपाणां नानाधिकरणानि, तथा शब्दानामपि नानाधिकरणता स्यादित्यत आह - विप्रतिपन्ना इति । ननु सर्वशब्दस्यैकाधिकरणत्वेऽग्रहप्रसङ्ग इति चेत्-न; कर्णशष्कुल्यवच्छिन्ननभसा तद्रहस्वीकारात् । यद्वा नभोमात्रं श्रोत्रं सर्वेषामेकमेव । न चातिप्रसङ्गः, शब्दकारणीभूतवायुसंयोगस्य कर्णशष्कुलीनिष्ठस्य शब्दसाक्षात्कारजनने श्रोत्रसहकारित्वात् । प्रथमपक्षे पक्षोऽपि एतत्क - कारभिन्नो बोध्यः, तेन स शब्दः केनचिच्छ्रयत एव, निष्प्राणिकस्य प्रदेशस्य वक्तुमशक्यत्वात् । एवमेकेनपि कयाचित्प्रत्यासत्या सर्वशब्दः श्रूयत इत्याश्रयासिद्धिर्वारिती ।
१ पदमिदं नास्ति ट पुस्तके. २ भावनावेगेति झ. ३ शब्दवदिति मु. ४ इति शब्दत्वं सिद्धमिति मु, इत्येकत्वं तस्य सिद्धमिति क. ५ पृथिव्याद्यष्टातिरिक्तमिति च. ६ सम्बन्धेनेति च. ७ द्रव्येति न व्यर्थमिति नास्ति च पुस्तके. ८ घटातिरिक्तेति च. ९ निवेशितयेति च. १० एकयेति च ११ वादिकृता न प्रथमपक्षे इति च पुस्तके.

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120