Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 26
________________ निरूपणम्] टीकात्रयोपेता अन्ये तु-एकोत्पत्त्यनन्तरमपरं यत्रोत्पन्नं तत्र विनश्यदवस्थाविनश्यदवस्थद्वयविषयक एकस्साक्षात्कारस्सम्भवतीत्याहुः । ____अन्ये तु-आदौ सुखमनन्तरं तज्ज्ञानम् , अनन्तरं दुःखम् , तदनन्तरं जायमानेन । दुःखसाक्षात्कारेण द्वयमपि विषयीक्रियते । चतुर्थादिक्षणवृत्तित्वं सुखादेः स्वीक्रियत एवेत्याहुः । (अत्र) लौकिकसाक्षात्कारो विवक्षितः, तेन न ज्ञानोपनीतसुखसाक्षात्कारादिर्भोगः । केचित्तु सविकल्पकं साक्षात्कारं गृह्णन्ति । तेन न सुखनिर्विकल्पकस्य भोगता। अन्ये तु तेनिर्विकल्पस्यापि भोगत्वं वदन्ति । [अ. टी.] कस्तर्हि भोगो यत्साधनं शरीरमत आह-खसमवेतेति । घटसाक्षात्कारव्यवच्छेदार्थ सुखादिपदम् । योगिनामीश्वरस्य च परसमवेतसुखादिसाक्षात्कारे व्यवच्छेदार्थ खसमवेतेत्युक्तम् । विनश्यदविनश्यदवस्थसुखदुःखयोयुगपत्साक्षात्कारादन्यतरग्रहणमुपलक्षणार्थम् । [वा. टी.] स्वसमवेतेति । घटसाक्षात्कारनिवृत्तये दुःखेति । सुखसाक्षात्कारेऽतिव्याप्तिपरिहाराय सुखेति । उभयोरेकसाक्षात्कारे द्वये चातिव्याप्तिरत आह-अन्यतरेति । अन्यतरत्वञ्च सुखदुःखान्यत्वात्यन्ताभावाश्रयत्वम् । तथा च साक्षात्कारसम्भवान्नैकत्राव्याप्तिः । ईशस्य सुखसाक्षात्कारेऽतिव्याप्तिपरिहाराय स्वसमवेतेति । (अयोनिजशरीरानुमानम् ) पार्थिवाः परमाणवः पारम्पर्येण कदाचित्प्रकृष्टधर्मजायोनिजशरीरॉरम्भकाः, स्पर्शवत्परमाणुत्वात्, उदकपरमाणुवदिति अयोनिजशरीरसिद्धिः । दुःखभूयस्त्वादधर्मजमुत्तरं शरीरं मशकादीनाम् । प्रत्यक्षसिद्धं तस्यायोनिजत्वम् । [ब. टी.] आगमसिद्धेऽपि प्रकृष्टधर्मजायोनिजशरीरेऽनुमानमाह-पार्थिवा इति। अंशतः सिद्धसाधनवारणाय पार्थिवा इति । घटादीनां बाधवारणाय परमाणव इति । अजनितशरीरनष्टब्यणुकेन बाधवारणाय परमेति । पार्थिवपदेन मनसा बाधारणेऽपि साक्षाच्छरीरारम्भकत्वे बाधादाह-पारम्पर्येणेति । सर्वदा शरीरारम्भकत्वे बाधादाह-कदाचिदिति । मशकादिशरीरारम्भकत्वेनाथान्तरवारणाय प्रकृष्टेति । प्रकृष्टधर्मजयोनिजशरीरेणार्थान्तरवारणाय अयोनिजेति । उत्तमसुखजनकविषयजनकत्वेनार्थान्तरवारणाय शरीरेति । मनसि व्यभिचारवारणाय स्पर्शवदिति । घटे व्यभिचारवारणाय अणुत्वादिति । शरीरानारम्भब्यणुकव्यभिचारवारणाय परमेति । उदकेति । उदकपरमाणोरागमसिद्धं शरीरारम्भकत्वम् । १ द्रव्यमपीति छ. २ तदिति नास्ति च पुस्तके. ३ घटादीति ज. ट. ४. भोगव्यवच्छेदायेति ज. ट. ५ भारम्भकास्पर्शति मु. ६ अधर्मेति ख. ७ शरीरमिति नास्ति ख पुस्तके. ८ प्रमाणमिति च ९ वारणमपीति च. १. अनारम्भब्यणुकेति च. ११ उदकेति नास्ति च पुस्तके. १२ भारम्भकत्वादिति छ.

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120