Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
१८
प्रमाणमारी
[द्रव्य [ब. टी.] सरिदिति । सरित्वसमुद्रत्वयोर्व्यभिचारवारणाय जातीति । जातेस्सरिसमुद्रयोवृत्तिर्विवक्षिता । सरित्समुद्रनिष्ठद्वित्वान्यतरत्वादौ व्यभिचारवारणाय जातित्वादिति। साध्यकृत्यं तदर्थश्च पूर्ववत् ।। ___आप्या इति । अत्रानुमाने यद्यपि न पार्थिवपरमाणुर्दृष्टान्तः, तस्य पारम्पर्येण शरीरारम्भकत्वे साध्ये जलपरमाणोदृष्टान्तीकृतत्वात् , अन्योन्याश्रयात् , तथापि पृथिवीपरमाणोः प्रकृष्टधर्मजायोनिजत्वे साध्ये जलपरमाणुदृष्टान्तः । अत्रेदशसाध्यवत्त्वस्यागमसिद्धत्वात् । पृथिवीपरमाणोः पुनः शरीरारम्भकत्वमात्रं प्रकारान्तरेण जलपरमाणुदृष्टान्तनिरपेक्षेणैव सिद्धमिति तदृष्टान्तेन जलपरमाणौ शरीरारम्भकत्वमानं साध्यते, यत्पक्षधर्मताबलादयोनिजत्वं सिध्यतीत्यन्यदेतदिति दिक् । पक्षधर्मतावललभ्यमर्थ प्रकारान्तरतया साधयति-तञ्चेति।कार्यत्वमानं योनिजे व्यभिचारि, अत आप्येति । आप्यत्वमप्वाधिकरणत्वं जलपरमाणो व्यभिचारि । तत्र शुक्रशोणितसनिपातं विना जायमानत्वाभावात् , अत उक्तम्-कार्यत्वादिति । अवाधिकरणसमवेतत्वादित्यर्थः । वर्षोपलाः करकाः। प्रकृष्टेति । उद्देश्यसिध्यर्थं प्रकृष्टेति । प्रकृष्टपरमाणुत्वादिजत्वेनार्थान्तरवारणाय अदृष्टेति । योनिजशरीरे व्यभिचारवारणाय अयोनिजेति । योनिं विना जायमानघटादौ व्यभिचारवारणाय शरीरत्वादिति । ननु दृष्टान्त इव प्रकुंष्टाधर्मजत्वं पक्षेपि सिध्यत्वित्यत आह-सुखेति । यद्यपि मरणकालीनदुःखजनकाधर्मजन्यत्वमस्ति, तथापि प्रकृष्टाधर्मजत्वं नास्तीत्यर्थः।
[अ. टी. एवं पृथिवीं निरूप्य जलं निरूपयति-लेहेति । अनित्यसमवेतसमुंद्रादौ प्रवृत्तेस्सिद्धत्वेन सिद्धसाधनताव्युदासार्थ नित्यसमवेतेत्युक्तम् । अत्रापि सरित्समुद्रत्वजात्योः प्रत्येकं व्यभिचारवारणाय सरित्समुद्रजातित्वादित्युक्तम् ।।
आप्याः परमाणव इति पार्थिवानुमानवव्याकर्तव्यम् । पार्थिववदाप्यमपि शरीरं योनिजायोनिजमिति मन्वानं प्रत्याह-तचेति । करको वर्षोपलः । ननु प्रकृष्टादृष्टजन्यत्वेयोनिजत्वं प्रयोजकम् , तदत्र गमकत्वलक्षणं प्रयोजकत्वं व्याप्त्यभावान्नास्तीति तबाह, अथवा योनिजत्वेनाभीष्टतरलाभ इत्याह-प्रकृष्टादृष्टजमिति । दृष्टान्ते प्रकृष्टमदृष्टमधर्माख्यम् , प्रकृते तु न तथेत्याह-तत्सुखभूयस्त्वादिति ।
__ उत्तरः शरीरेन्द्रियव्यतिरिक्तः । गन्धं विहाय स्नेहयुक्ताः पूर्वोक्ता एव चतुर्दश गुणाः।
द्वित्वेति नास्ति छ. २ यदिति नास्ति च. ३ इति दिगिति नास्ति छ. ४ प्रकारतयेति च. ५ पदमिदं नास्ति च पुस्तके. ६ इतः पदत्रयं नास्ति च पुस्तके. ७ इवाप्रकृष्टेति च.. नेति नास्ति । पुस्तके. ९ एवमिति नास्ति झ. १० अनित्यावयवेति ज. ट. ११ समुद्रादावप्रवृत्तेरिति झ, समुद्रादावब्ध वृत्तेरिति ट. १२ भदृष्टजत्वे इति ज. ट. १३ पदमिदं नास्ति झ. १४ अभीष्टलाम इति ज, ममीडातरलाभ इति द. १५ संयुक्ता इति ज. द.

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120