Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प्रमाणमञ्जरी ' [वा. टी.] रूपित्वसाधर्म्यात्तेजो निरूपयति-अगुरुत्वे सतीति । घटनिवृत्तये अगुरुत्व इति। आकाशनिवृत्तये रूपवदिति । ननु सुवर्णादेनैमित्तिकद्रवत्वेन घृतादिवत्पार्थिवत्वासिद्धरसिद्धो हेतुरित्याशङ्कय नैमित्तिकद्रवत्वं तर्खेव पार्थिवत्वं नियमयेत्, यदि गन्धवत्तत्सहकृतां भवेत् । ये हि यज्जाता यन्नियामका धर्माः ते हि तत्समानाधिकृता दृष्टाः । यथा शीतोष्णादयः । न चैतत्प्रकृते प्रादेशिकत्वादस्येति मत्वाह-नासिद्धमिति । न हि प्रतिज्ञामात्रेणार्थसिद्धिरिति तत्र प्रमाणमाहतेजस्त्वमिति । पृथिवीत्वनिवारणाय दीपेति । दीपत्वनिवारणाय अण्विति । अणुत्वनिवारणार्थ जातीति । अणवश्व दीपारम्भका एव ।
- (नयनेन्द्रिये प्रमाणम् ) __नयनाख्येन्द्रिये प्रमाणम्-आलोकात्यन्ताभावे जायमानो रूपसाक्षात्कारस्तेजाकारणका, रूपसाक्षात्कारत्वात्, सत्यालोके जायमानरूपसाक्षात्कारवत् । तद्गोलकस्थं नयनोन्मीलने सत्येवोपलब्धेः। आलोकाज्ञानं तम इत्याश्रयासिद्धिरिति चेत्-न; विधिमुखेन वातव्येण कृष्णाकारेण बहीरूपवत्तया प्रतीतेः। [ब. टी.] आलोकात्यन्ताभावेति । प्रदीपादिजन्यत्वेनार्थान्तरवारणाय सप्तम्यन्तम् । आलोकान्योन्याभावस्थले आलोकादिजन्यत्वेनार्थान्तरवारणाय अत्यन्तेति । एवं घटत्वात्यन्ताभावस्थले सौरालोकादिजन्यत्वेनार्थान्तरवारणाय आलोकेति । आलोकसामान्यात्यन्ताभाव इत्यर्थः। आलोकः उद्भूतरूपवत्तेजः, उद्भूतरूपवन्महातेजो वा। तेन स्वमते चक्षुरादितेजस्सत्वेऽपि नाश्रयासिद्धिः। ईश्वरसाक्षात्कारस्य पेक्षत्वेनांशतो बाधस्यात्तद्वारणाय जायमान इति । रससाक्षात्कारे बाधवारणाय रूपेति। रूपानुमितौ बाधवारणाय साक्षात्कार इति। न च ज्ञानोपनीतरूपविषयकमानससाक्षात्कारमादाय बाधः, तदतिरिक्तत्वेन पक्षस्य विशेषणात् । उद्देश्यसिद्धये तेज इति । रसादिसाक्षात्कारे व्यभिचारवारणाय रूपेति । रूपानुमितौ व्यभिचारवारणाय साक्षाकारत्वमुक्तम् । ज्ञानादिप्रत्यासत्यजन्यरूपसाक्षात्कारत्वं हेतुः।न्यायमतमवष्टभ्यालोकाधिकरणे जायमानो रूपसाक्षात्कारः पक्ष इति केचित् । तेषां मते जायमानत्वादिविशेषणमुद्देश्यसिद्धये । तत्तेजः कुत्रेत्यत आह-तद्गोलकस्थमिति। हेतुमाह-नयनेति। नयनपदं गोलँकाभिधायि । एतावता नयनविस्फारणमपि गोलकस्थतेजसः सहकारीति भावः । नयनगतिप्रतिबन्धकाभावतया तदुपयोगितया वा तदुपयोगः । आलोकाज्ञानमिति । तथाच तमसो द्रव्यत्वाभावेन किंगतरूपसाक्षात्कारः पक्ष इत्यर्थः। भट्टमताश्रयणेन प्राभाकरमतर्मुपमर्दयति-विधीति । भावंतया प्रतीयमानत्वादित्येको हेतुः ।
१ उपलभ्यत इति मु. २ अत्यन्ताभावेति छ. ३ उद्भूतानभिभूतरूपेति छ. ४ इति वादिनो मत इति छ.५ प्रत्यक्षत्वेनेति छ. ६मालोकाभावेति च, ७ गोलकपरमिति च. ८ उपदर्शयतीति छ. ९ भावरूपयतयेति च.

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120