Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
प्रमाणमञ्जरी
[द्रव्य(पार्थिवमिन्द्रियं तत्प्रमाणञ्च ) गन्धवदिन्द्रियं घाणम् । तत्र प्रमाणम्--पार्थिवाः परमाणवः पारम्पर्येणेन्द्रियारम्भकाः, स्पर्शवत्परमाणुत्वात्, तेजःपरमाणुव दिति ।
[ब. टी.] गन्धवदिति । घटादावतिव्याप्तिं वारयितुम् इन्द्रियमिति । रसनादावतिव्याप्तिवारणाय गन्धवदिति । पार्थिवा इति । मनसि बाधवारणाय जलपरमाणौ सिद्धसाधनवारणाय च पार्थिवा इति । घटादौ बाधवारणाय अर्णव इति । अणुके बाधवारणाय परमेति । साक्षादारम्भकत्वे बाधवारणाय पारम्पर्येणेति । घटादिजनकत्वेनार्थान्तरवारणाय इन्द्रियेति । मनोधणुकघटेषु व्यभिचारवारणाय क्रमेण हेतुविशेषणानि । तेजः परमाणोरिन्द्रियारम्भकत्वमागमिकम् । [अ. टी.] तेजःपरमाणूनामिन्द्रियारम्भकत्वम् “स एतास्तेजोमात्राः समभ्याददानः" इत्यागमसिद्धं द्रष्टव्यम् । [वा. टी.] गन्धवदिति । पार्थिवेन्द्रियमिति शेषः । पृथिवीप्रकरणे पार्थिवत्वेनैव तत्तत्परमाण्वादीनां प्रतिपादनात्प्रकृते तेनैव प्रतिपादनमुचितम् । ननु घ्राणमिति विशेषणेन च तत्प्रकरणबलाज्ज्ञातुं शक्यमिति शङ्कयम् , 'शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत' इति न्यायादिति तत्किमत आह-घ्राणमिति । पर्यायत्वेन बोधयितुं शक्यत्वेऽपि घ्राणपदेन जिघ्रति गन्धमिति व्युत्पत्त्या गन्धग्राहकत्वमुक्तम् । ततश्च यस्य भूतस्य यदिन्द्रियं तत् तस्य विशेषगुणग्राहकमिति सूचितम् ।
(विषयलक्षणं पार्थिवविषयश्च ) स्पर्शवान् शरीरेन्द्रियव्यतिरिक्तः कार्यजातो विषय इति सामान्यलक्षणम्। गन्धवान् विषयः पार्थिवो विषयः। सं चेष्टकादिः प्रत्यक्षसिद्धः। सा चतुर्दशगुणवती। एवमुत्तरत्र सामान्यलक्षणानुवृत्तौ पदान्तरानुगमेन तत्तत्परमाण्वादीनां लक्षणानि भवन्ति । [ब. टी.] स्पर्शवानिति । गुणकर्मादावतिव्याप्तिवारणाय स्पर्शवानिति । शरीरेन्द्रिययोरतिव्याप्तिवारणाय व्यतिरिक्त इत्यन्तम् । परमाण्वादावतिव्याप्तिभङ्गाय जात इति। उत्पन्न इत्यर्थः। व्यणुकेऽतिव्याप्तिवारणाय कार्यजात इत्युक्तम् । कार्यसमवेत इत्यर्थः । अत्रं शरीरादिव्यतिरिक्त एव विषयो लक्ष्यः । गन्धवानिति । जलादिविषयेऽतिव्याप्तिवारणाय गन्धवानिति । पार्थिवशरीरादावतिव्याप्तिवारणाय विषय इति । एवमिति । सामान्यलक्षणं परमाणुत्वादिकम् , पदान्तरं स्नेहवत्वादिकम्। तथाच स्नेहवान् परमाणुः जलपरमाणुरित्यादिलक्षणानि ज्ञेयानीत्यर्थः ।
१ तत्र प्रमाणमिति नास्ति ख पुस्तके. २ अणव इत्यारभ्य बाधवारणायेत्यन्तं नास्ति च पुस्तके. ३ ज्ञेयमिति ज. ट. ४ स्पर्शवन्निति ख. ५ अतिरिक्तकायेति ख. ६ सचेति नास्ति क. ख. पुस्तकयोः. ७ इष्टकादि-प्रत्यक्षेति ख. मु. ८ अनुगमने इति क. ९पशिरियं नास्ति छ. पुस्तके. १. कार्याजात इति च.

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120