Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir
View full book text
________________
निरूपणम् ]
श्रयत्वं विवक्षितम् । न च प्राणवायावतिव्याप्तिः, अप्रत्यक्षपदेन त्वग्ग्राह्यगुणवत्वराहित्यस्य विवक्षितत्वात् । न चात्मन्यतिव्याप्तिः । न चाप्रत्यक्षपदेन लौकिकप्रत्यासत्या मनोग्राह्यगुणवत्वराहित्यं विवक्षितम्, शरीरप्राणवाय्वादावतिव्याप्तेः । न चाप्रत्यक्षपदेन मनोग्राह्यगुणवत्वराहित्ये संति त्वग्ग्राह्यगुणवत्वराहित्यं विवक्षितम्, परिमाणगोचरसाक्षात्प्रतीतिसाधनेन्द्रियावयवेऽतिव्याप्तेः । न चेन्द्रियावयवसंयोगस्य विषयावयवादिनिष्ठस्य परिमाणग्रहं प्रति कारणतैव नास्ति, दूरे परिमाणाग्रहस्तु दूरत्वदोषवशादिति वाच्यम्, तथापि शरीरनिष्ठेन्द्रियसंयोगस्याजनकतया सम्भवापत्तेः, इन्द्रियतदधिष्ठानसंयोगस्यैव तञ्जनकत्वात् । अत्राहुः- शब्देतरोद्भूत विशेष गुणानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वस्य स्मृत्यजनकज्ञानकारणमनस्संयोगाश्रयत्वस्य वेन्द्रियत्वस्य विवक्षितत्वानोक्तदोष इति ।
टीकात्रयोपेता
१५
[अ. टी.] अनुमानादिव्यवच्छेदार्थमिन्द्रियलक्षणे साक्षात्कार पदम् । आत्मादिव्यवच्छेदार्थम् अप्रत्यक्षपदम् । धर्मादिव्यवच्छेदार्थं शरीरसंयुक्तपदं द्रष्टव्यम्, कालान्यत्वञ्च । षड्गुणं षसंख्याकं तच्चेन्द्रियमिति शेषः । षड्गुणमिति पदस्य लक्षणान्तर्गतत्वेनैवादृष्टकालादिव्यवच्छेदान्न पदान्तराध्याहारः ।
[वा. टी.] षड्गुणमिति । घटसाधननिवृत्त्यर्थं प्रतीतीति । लिङ्गनिवृत्त्यर्थं साक्षात्कारेति । इन्द्रियार्थसन्निकर्षनिवृत्तये शरीरसंयुक्तमिति । साधनशब्दस्य करणपर्यायत्वान्न कालादावतिव्याप्तिः । षड्गुणपदं विभागपरम् । अप्रत्यक्षपदं खरूपपरम् । अप्रत्यक्षत्वञ्चात्र योगजधर्माजन्य साक्षात्काराविषयत्वम्, नेन्द्रियजन्यज्ञानाविषयत्वम् आत्माश्रयापत्तेरिति । यद्वा षड्गुणमप्रत्यक्षमिति लक्षणान्तरम् । तस्यार्थः–आकाशनिवृत्तये षड्गुणमिति । षट्प्रकारकमित्यर्थः । तत्त्वञ्चानुवृत्तधर्मापेक्षया न व्यावृत्तेन धर्मेण । तेन नैकैकत्राव्याप्तिः । अनुवृत्तेनेन्द्रियत्वरूपेण धर्मेण षडिधत्वानपायात् । इन्द्रियार्थसन्निकर्षनिवृत्तये - अप्रत्यक्षेति । अप्रत्यक्षत्वञ्चात्र न विद्यते प्रत्यक्षं साक्षात्कारविषयो घटादिसमवायिकारणतया निरूपकत्वेन वा यस्य तत्तथेति सर्वं सुस्थम् ।
*
१ पदमिदं नास्ति च पुस्तके २ सतीत्यारभ्य राहित्यमित्यन्तं नास्ति च पुस्तके. ३ परिमाणागोचरेति च. ४ सम्भवोपपत्तेरिति च.
* शब्देतरे ये उद्भूतविशेषगुणाः तदनाश्रयत्वे सति, ज्ञानकारणीभूतो यो मनस्संयोगः तदाश्रयत्वमित्यर्थः । आत्मादावतिव्याप्तिनिरासाय सत्यन्तम् । श्रोत्रेन्द्रियेऽव्याप्तिवारणाय शब्देतरेति । घ्राणादावव्याप्तिवारणाय उद्भूतेति । शब्देवरोद्भूतगुणं संयोगमादायासम्भववारणाय विशेषेति । कालादावतिव्याप्तिवारणाय विशेष्यदलम् । विशेष्यगतज्ञानकारणेत्यपि तद्वारणाय । कालादावुद्भूतरूपाभावचाक्षुषं प्रति चक्षुस्संयुक्तविशेषणतायाः सन्निकर्षतया तद्वटकचक्षुस्संयोगस्यापि हेतुत्वेन तत्रातिव्याप्तिवारणाय मनःपदम् ।
५ श्रात्मव्यवेति ज. ट. ६ षट्संख्यमिति ज. ट. ७ अदृष्टादीति झ.

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120