Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 24
________________ निरूपणम्] टीकात्रयोपेता 'यन दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत्तत्सुखं स्वापदास्पदम् ॥ इत्यादेरुक्तत्वादिति तन्नः तत्र मरणकालीनदुःखातिरिक्तदुःखासम्भेदस्योक्तत्वात् । न च मरणं दुःखाविनाभूतमेवेति तत्राव्याप्तौ स्वर्गिमरणातिरिक्तमरणमेव गृह्यतामिति वाच्यम् । सामान्यव्याप्ती वाक्यमन्तरेण सङ्कोचे मानाभावात् । न च 'यन्न दुःखेन सम्भिन्नम् इत्येव तत्र सङ्कोचकम् , अन्यथा भवद्भिरपि कर्तव्ये सङ्कोचे विनिगमनाविरह इति वाच्यम् । स्वर्गे मरणदशायां दुःखस्य पुराणादिसिद्धत्वात् । न च ते नराः सुखमृत्यव इत्यनेन सह विरोध इति वाच्यम् , तस्याल्पकालव्यापकदुःखपूर्वकमरणतात्पर्यकत्वात् । न चैवं सुखान्तमुक्तिभङ्गप्रसङ्गः, इष्टापत्तेः । तदुपपादितमस्माभिः द्रव्यप्रकाशप्रकाशे । आत्मन्यतिव्याप्तिवारणाय स्पर्शवदिति । न च शरीरावयवे लक्षणमतिव्यापकमिति वाच्यम् , स्पर्शवत्पदेनान्त्यावयविन उक्तत्वात् । न च घटेऽतिव्याप्तिः, तस्य भोगाजनकत्वात् , भोगसाधनपदेन भोगावच्छेदकत्वस्योक्तत्वाद्वा । न चेन्द्रियसंयुक्तमेवेति भोगस्य वैयर्थ्यमिति वाच्यम् , तस्योपरञ्जकत्वात् । अन्ये तु भोगसाधनमित्युक्ते चक्षुरादावतिव्याप्तिस्स्यात् , तदर्थमिन्द्रियसंयुक्तमिति वाच्यम् । घटादावतिव्याप्तिवारणायैवकारः । तस्य स्मृत्यादिविषयतापन्नस्यापि भोगसाधनतयावधारणार्थो नास्तीति नातिव्याप्तिः, मनस्संयुक्तस्यात्मनो भोगसाधनस्य व्यवच्छेदार्थ स्पर्शवदिति व्याचक्षुः । तमा इन्द्रियादीनां भोगंजनकतया पदवैयर्थ्यात्, प्राणवायुशरीरावयवकरचरणादावतिव्याप्तिश्च । ननु पूर्वव्याख्यानेऽपि लक्षणमिदं मृतशरीरव्यापकम् , अव्यापकञ्च नृसिंहशरीर इति चेत्-न; आत्मविशेषगुणजनकमनस्संयोगवदैत्यन्त्यावयविमात्रवृत्तिजातिमत्वं शरीरत्वमित्यस्य विवक्षितत्वात् । व्याख्यातश्चैतत् द्रव्योपायोपाये । * यत्सुखं न दुःखेन सम्भिन्नम्-दुःखमिश्रं न भवति, न च ग्रस्तम्-शत्रुकृतापहारादिशङ्कारहितम् , भनन्तरम् अविच्छिवं सन्ततं वर्षादियावत्कालभोग्यम्, भभिलाषोपनीतम्-प्रयत्नानपेक्षाभिलाषमात्रोपनीतविषयम्, तत्सुखं स्वःपदास्पदं स्वर्गपदवाच्यं भवतीत्यर्थः । सांसारिकसुखवैलक्षण्यमनेन प्रदर्शितमिति बोध्यम् । इयं स्मृतिरिति विज्ञानमिक्षवः । परन्तु परिमलादिषु प्रामाणिकग्रन्थेषु श्रुतित्वेन व्यवहारादर्थवादरूपा श्रुतिरिति वयं मन्यामहे । तत्रेति नास्ति च पुस्तके, २ सङ्कोचस्यामानकत्वादिति छ. ३ तरसुखमेवेति च. ४ भपीति नास्ति च. ५ व्याप्तीति च. ६ अवच्छेदकस्येति च. ७ चक्षुरादिष्विति च. ८ पदमिदं नास्ति च. ९ भोगाजनकेति च. १. पदमिदं नास्ति च. ११ नृसिंहादीति च. १२ संयोगवदन्त्येति छ.

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120