________________
निरूपणम्]
टीकात्रयोपेता [अ.टी.] पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभेदेन द्रव्यपदार्थो नवप्रकार इति विभागोदेशोक्तत्वात्क्रमेण लक्षणमाह-तत्र गन्धवतीति । सजातीयविजातीयव्यवच्छेदो लक्षणप्रयोजनमिति केचित् । तत्र पृथिव्यादिलक्षणे द्रव्यत्वेन सजातीयव्यवच्छेदसम्भवेऽपि जात्यादेविलक्षणजात्यभावेन विजातीयत्वाभावाद्यवच्छेदाभावप्रसङ्गः स्यात् । तस्मादेतत्परित्यागेन व्यवहारैसिद्धिर्वा लक्षणप्रयोजनमित्युदयनाचार्याः । अत्र चे प्रयोजनान्तरानुक्तेवृद्धोक्तं फलमेव ग्राह्यम् । तथा च लक्ष्यादितरमात्रव्यवच्छेदो लक्षणप्रयोजनं भवेत् । एवं चे गन्धवत्त्वस्य पृथिवीतरमात्रावृत्तेः पृथिवीलक्षणं युक्तम् । विमतं पृथिवीति व्यवहर्तव्यम् , गन्धवत्त्वात्, व्यतिरेकेण जलादिवदिति व्यवहारसिद्धिः प्रयोजनम् ।
[वा. टी.] गन्धवतीत्यत्र गन्धमानं विवक्षितम्, न सुरभ्यादि । तेन नाव्याप्तिरिति द्रष्टव्यम् । ननु पृथिव्या अनित्यत्वेऽवयवनाशेनैव नाशेऽवयवानवस्थानादवघेरभावात् , ततश्च मेरुसर्षपयोस्तुल्यपरिमाणत्वापत्तिः । तेन विनैव नाशेऽवयवध्वंसेऽपि कार्यकारणत्वं स्यात् । नित्यत्वेऽनुपलब्धिबाधः, प्रमाणभावश्चेत्यत आह-सा द्वेधा इति ।
(परमाणुलक्षणम् ) पूर्वा परमाणुरूपा । क्रियावान्नित्यः परमाणुरिति सामान्यलक्षणम् । [ब. टी.] नित्य इति । आकाशादावतिव्याप्तिवारणाय क्रियावानिति। घटादावतिव्याप्तिवारणाय नित्य इति । मनोऽपि परमाणुरिति नातिव्याप्तिः। यदि मनोव्यावृत्तपरमाणोलक्षणम्, तदा द्रव्यारम्भप्रयोजिका क्रिया विवक्षितेति नातिव्याप्तिः।
[अ. टी.] परमाणोः किं लक्षंणमित्यत आह-क्रियावानिति। घटादिव्यवच्छेदार्थ नित्यपदम् । आत्मादिव्यवच्छेदार्थ क्रियावानिति। ननु मनस्यतिव्यापकमेतत् । न च मनोऽपि परमाणुरेव, मूर्तत्वे सति सदी स्पर्शशून्यं मन इति वक्ष्यमाणमनोलक्षणे स्पर्शशून्यपदेन परमाणुव्यावर्तनात् । पाकावस्थायां क्षणस्पर्शशून्यपार्थिवाणुव्यवच्छेदाय "सदेति विशेषणाच। न च लक्ष्यव्यवच्छेदो युक्त इति । उच्यते-क्रियावानिति द्रव्यारम्भकत्वस्य क्रियावत्त्वप्रयुक्तस्य विवक्षितत्वान्मनसि च तदभावान्नातिव्याप्तिः ।
[वा. टी.] परमाणुरूपेत्यनेन महत्त्वाभावादनुपलब्धिबाधस्तदवधिनानवस्थादोषश्च परिहृतो भवति । प्रमाणं चाग्रत एव वक्ष्यति । आकाशनिवारणार्थ क्रियेति । व्यणुकनिवारणार्थ नित्य इति । नन्विदं पृथिवीपरमाणुलक्षणम् ? परमाणुसामान्यलक्षणं वा ? आधेऽतिव्यापकम् , द्वितीये प्रमाणाभावः ।
१ भावप्रसङ्ग इति झ. २ सिद्धिरेवेति ट. ३ चेति नास्ति ज. ४ वृद्धोक्तमेव युक्तमिति ज.
ते नास्ति ज. ६ वृत्ताविति झ. ७ फलमिति झ. ८प्रयोजनमिति नास्ति. ९ लक्षणमत इति ज. ट. १० व्युदासार्थमिति ज. ट. ११ सर्वदेति ज. ट. झ. १२ अस्पर्शवदिति ट. १३ क्षणमिति ट.. १४ अणुकेति झ. १५ सर्वदेति ट. १६ भारम्भकत्वप्रयुक्तस्य क्रियावत्वस्येति झ.