________________
प्रमाणमञ्जरी
[ द्रव्य
अत आह- इतीति । न च प्रयोजनाभावः, (तत्रद्विशेषपरप्रक्षेपेक्ष्य ? तत्तद्विशेषपदप्रक्षेपस्य ) तत्तद्विशेषमपेक्ष्य तत्तत्परमाण्वादिलक्षणबोधस्य प्रयोजनस्य विवक्ष्यमाणत्वादिति ।
*
( पृथिवीपरमाणुलक्षणम् )
परमाणुर्गन्धवान् पार्थिवः । उत्तरा द्वेधा- नित्यसमवेता, अन्यथा चेति । [ब. टी.] पृथिवीपरमाणुलक्षणमाह - गन्धवानिति । जलादिपरमाण्वादावतिव्याप्तिवारte गन्धवानित्युक्तम् । घटादावतिव्याप्तिवारणाय परमाणुरिति । द्यणुकेऽतिव्याप्तिवारणाय परमेति । यणुकमपि यत्किञ्चिदपेक्षया परमं भवति, इत्यतिव्याप्तिवारणायाणुत्वमुक्तम् । उत्तरेति । अनित्येत्यर्थः । अन्यथेति । अनित्यसमवेतेत्यर्थः, न तु नित्यासमवतेति तदर्थः । अन्यथा अनित्य पृथिवीविभागे परमाणोरपि सङ्ग्रहापत्तिः ।
[अ.टी.] परमाणुत्वे सति गन्धवान् यः, स पार्थिवः परमाणुरिति विशेषलक्षणमाह - परमाणुरिति । पार्थिवद्व्यणुकादिव्यवच्छेदार्थं परमाणुपदम् । सलिलादिपरमाणुव्यवच्छेदार्थं गन्धवानिति । उत्तरा अनित्या पृथिवी । अन्यथा अनित्यसमवेतेत्यर्थः ।
[वा. टी.] घटातिव्याप्तिवारणाय परमाणुरिति । तेजोऽणुनिवारणाय गन्धवानिति ।
*
( ह्यणुकलक्षणम् )
पूर्वा द्यणुकम्। स्पर्शवन्नित्यसमवेतं ह्यणुकमिति सामान्यलक्षणम् । [ब. टी.] पूर्वा नित्यसमवेता । क्रियावदिति । शब्दादावतिव्याप्तिवारणाय क्रियावदिति । घटादौ तद्दोषभङ्गाय नित्यसमवेतमिति । नित्यकाला दिसम्बद्धं घटादि भवत्येवेति पुनरप्यतिव्याप्तिं भञ्जयितुं नित्यसमवेतमिति निजगदे । न च निष्क्रि यनष्टद्व्यणुकेऽव्याप्तिः क्रियावन्नित्यसमवेतवृत्तिद्रव्यविभाजकोपाधिमत्त्वस्य विवक्षितत्वात् । न च क्रियावदिति व्यर्थम्, तस्यादेयत्वात् । न च घटादावतिव्याप्तिः, परमाणुसमवेतद्रव्यंमात्रस्य विवक्षितत्वात् ।
[अ. टी.] आद्या नित्यसमवेता । द्व्यणुकमित्यत्राणुकंशब्दो न द्व्यणुकवाची, द्वाभ्यामणुकाभ्यामारब्धमिति व्युत्पत्त्या यथा त्र्यणुकमित्यत्र येन त्र्यणुकवद्व्यणुकमनित्यसमवेतमाशङ्कयत । नच त्र्यणुकं परमाणुत्रयारब्धमिच्छन्ति काणादाः । तथा सति साक्षात् त्र्यणुकारम्भसम्भवेन द्व्यणुकोपक्रमारम्भभङ्गप्रसङ्गात् । न च त्र्यणुकवद् द्व्यणुकं द्व्यणुकारब्धं सम्भवति । अतोऽयमणुशब्दः परमाणुवाचीति परमाणुयारब्धद्व्यणुकस्य नित्यसमवेतत्वं युक्तम् । नित्यसमवे
इति छ. ३ अणुकमपीति छ. ७ व्युदासायेति ज.. ११ अणुभ्यामिति ज. ट.
८
१ परमाणुरित्यधिकं क. ख. २ अणुके ५ पार्थिवपरमेति झ. ६ व्यवच्छेदायेति ज. ट. ९ द्रव्यत्वस्येति छ. १० अणुशब्द इति ज. ट. १३ नित्येत्यारभ्य युक्तमित्यन्तं नास्ति झ.
४ अन्यथेति नास्ति च. सम्बद्धो घटादिरिति च. १२ व्यणुकमिति नास्ति द.