________________
निरूपणम् ]
टीकात्रयोपेता
९
तसामान्यादेर्व्युदासीय स्पर्शवदित्युक्तम् । स्पर्शवत्परमाणुव्युदासाय समवेतपदम् । स्पर्शत्त्ववे सत्यनित्यसमवेतत्र्यणुकनिरासार्थं नित्यपदम् ।
[वा. टी.] स्पर्शवदिति । घटेऽतिव्याप्तिवारणाय नित्येति । स्पर्शनिवारणाय स्पर्शवदिति । परमाणु निवारणाय समवेतमिति । घटतेजोऽणुकनिवारणाय पदद्वयम् ।
*
( पार्थिवद्यणुकलक्षणम् )
गन्धवद्द्द्व्यणुकं पौर्थिवद्व्यणुकम् । पृथिवीत्वं नित्यसमवेतवृत्ति, घटपटवृत्तिजातित्वात् सत्तावदिति परमाणुद्व्यणुकयोस्सिद्धिः ।
[ब. टी.] यत्तु निष्क्रियद्व्यणुकमेव न सम्भवति, अन्यथा तेन व्यणुकेन समं गगनादेस्संयोगाभावापच्या सर्वमूर्तसंयोगित्वलक्षणविभुत्वानापत्तेरिति, तन्नः संयोगजसंयोगेन विभुत्वोपपत्तेः ।
गन्धवदिति । जलादिद्व्यणुकेऽतिव्याप्तिवारणाय गन्धवदिति । घटादावतिव्याप्तिभङ्गाय द्व्यणुकमिति । परमाणावतिव्याप्तिवारणाय द्वीति । न च सुरभ्यसुरभि - परमाण्वादावव्याप्तिः, गन्धयोग्यताया विवक्षितत्वात् । परमाणुव्यणुकयोः प्रमाणमाहपृथिवीत्वमिति । वृत्तिमदेतावदुच्यमानेऽर्थान्तरम् । समवेतवृत्तीत्युच्यमानेऽपि तथा । तदर्थमुक्तम्- नित्येति । नित्यकालादिसम्बद्धे घंटादौ पृथिवीत्वं वर्तत एवेत्यर्थः । तद्वारणाय समवेतेति । नित्यसमवेतवृत्तीत्यर्थः । तेन परमाणुद्व्यणुकवृत्तित्वसिद्धिः । यद्वा यन्नित्यं तत्पक्षधर्मताबलेन पृथिवीत्वाधिकरणमेव सिध्यतीति भावः । नित्यमिति वक्तव्येऽर्थान्तरम् । नित्यसमवेतम्, एतावदिति वक्तव्ये परमाणुमात्रस्य सिद्धिः, तदर्थ विशिष्टमुक्तम् । घटपटपदे घटत्वपटत्वयोर्व्यभिचारवारणाय | घंटेपटान्यतरत्वे व्यभिचारवारणाय जातित्वादिति । सत्ता नित्यसमवेते शब्दादौ वर्तत इति दृष्टान्तसिद्धिः । न च द्रव्यत्वे व्यभिचारः, तस्य पक्षसमत्वात् ।
[अ. टी.] ननु प्रमाणमन्तरेण कथं परमाण्वादिसिद्धिः ? लक्षणमात्रेण वस्तुसिद्धौ केनचिल्लक्षणेन वन्ध्यापुत्रादेरपि सिद्धिस्स्यात् । अथ लक्षणं केवलव्यतिरेकी हेतुः । स च वन्ध्यापुत्रादौ न, धर्म्यादिप्रमित्यभावात्, तर्हि धर्म्यादिप्रमितौ लक्षणप्रवृत्तिरिति तत्र प्रमाणं वाच्यमित्याह - पृथिवीत्वमिति पृथिवीत्वस्यानित्यतन्त्वादिसमवेतपटादिवृत्तित्वेन
१ व्यवच्छेदायेति ज. ट. २ युक्तमिति ट ३ त्र्यणुकादीति ज ट ४ इदं पदं नास्ति ख. पुस्तके. ५ वृत्तीति नास्तिक. ख. पुस्तकयोः. ६ इतीति नास्ति मु. पुस्तके. ७ संयोगत्वापत्येति छ. ८ परमाण्वारब्धव्यणुक इति च. ९ पदमिदं नास्ति च पुस्तके. १० एतावतीति छ. ११ भङ्गायेति च. १२ घटत्वे व्यभिचारवारणाय पटेति । पटत्वे व्यभिचारवारणाय घटेति । घटपटद्वित्वे व्यभिचारवारणाय वृत्तीति १३ नित्याकाशेति च. १४ व्यभिचारत्वस्येति छ. १५ स चेति नास्ति ज. द. १७ अत आहेति ज. द..
१६ लक्षणे
प्रमाण ० २
इति छ. इति झ.