________________
प्रमाणमञ्जरी
[ द्रव्य
सिद्धसाधनताव्युदासार्थं नित्येत्युक्तम् । पृथिवीत्वं नित्यसमवेतमित्युक्ते यद्यपि नित्यपृथिवीसिद्धौ परमाणुसिद्धिस्स्यात्, तथापि न व्यणुकसिद्धिरिति तस्यै सिध्यर्थं वृत्तिपदम् । जातित्वादित्युक्ते मनस्त्वादौ व्यभिचारस्स्यादत उक्तम् - घटपटेति । घटजातित्वादित्युक्ते घटत्वे, एवं पटजातित्वादित्युक्ते पटत्वे व्यभिचारस्स्यादत उक्तम्- घटपटजातित्वादिति । सत्तावन्नित्ये नित्यसमवेते च पृथिवीत्वस्य वृत्तौ तदुभयं सिध्येत्, परमाणुव्यणुकतयैव सिध्यति । पृथिव्या निरतिशयाणुत्वेनैव निरवयवद्रव्यतयात्मवन्नित्यत्वं व्यणुकस्य च नित्यसमवेतत्वं, परमाणोश्च क्रियावत्वं स्वसमवेतद्रव्यारम्भकत्वात् । ततो यथोक्तव्यणुकपरमावोः सिद्धिः ।
१०
[वा. टी. ] पृथिवीत्वमिति । तन्तुसमवेतपट वृत्तित्वेन सिद्धसाधनतानिवारणाय नित्येति । यणु सिध्यै समवेतेति । घटलपटत्वनिवृत्तये घटपटेति । असिद्धिनिवारणाय जातीति । दृष्टान्ते च नित्याकाशसमवेत शब्दवृत्तित्वेन साध्यसिद्धिः । पक्षे च तदनुपपत्त्याभिमतसाध्यसिद्धिरिति। शरीरादिसंज्ञा च पृथिवीत्वेन परापरभावानिरूपणान्न शरीरत्वादिर्जातिनिबन्धना, किन्तर्हि ? तत्तल्लक्षणोपाधिकेति मन्तव्यम् ।
( शरीरसामान्यलक्षणम् )
उत्तरा त्रेधा-शरीरादिभेदेन । स्पर्शवदिन्द्रियसंयुक्तमेव भोगसाधनम् अन्त्यावयवि शरीरमिति सामान्यलक्षणम् ।
[ब. टी.] उत्तरेति। अनित्यसमवेतेत्यर्थः । स्पर्शवदिति । दण्डादावतिव्याप्तिवारणाय भोगेति । भोगः सुखदुःखान्यतरसाक्षात्कार इति । दुःखपदं व्यर्थमिति चेन्न; नारकीयशरीरेऽव्याप्तिवारकत्वात् । तस्य शरीरस्य केवलपापारब्धतया सुखानवच्छेदकत्वात् । न च दुःखसाक्षात्कारसाधनं दुःखसाधनमित्येवास्तु, इतरपदवैयर्थ्यमिति वाच्यम् । स्वार्गे शरीरे तस्याव्याप्तिवारकत्वात् तस्य केवलपुण्यारब्धतया दु:खानवच्छेदकत्वात् । ननु मरणस्य दुःखाविनाभूतत्वेन स्वर्गिशरीरमपि दुःखजनकं भवत्येवेति चेन्नः सुखजनके परिमाणभेदोद्भिन्नै शरीरे दुःखमजनयित्वैव नष्टे तस्य विशेषणस्याव्याप्तिवारकत्वात् । यत्तु मरणदशायामपि स्वर्गिणो न दुःखम्,
१ ब्युदासायेति ज.. २ सिद्धिरिति नास्ति ट. ३ तत्सिध्यर्थमिति ज. ट. ४ आत्मत्वे मनस्त्वे ५ व्यभिचारस्स्यादित्यधिकं झ. ६ चेत्यधिकं च. पुस्तके. ७ अन्त्यावयवीति नास्ति क. ख.
८ नारकेति च. ९ सुखदुःखेति च. १० इतरवैधर्म्यमिति छ. ११ तस्य स्वर्गीयेति १२ सुखेति च. १३ पदमिदं नास्ति छ. पुस्तके. १४ जनकेनेति छ. १५ भेदानिति च.
चेति ट. पुस्तकयोः.
च.