________________
· प्रमाणमञ्जरी
[ द्रव्य
[अ. टी. ] द्रव्यादिभेदेन षडिधो भावपदार्थ इति विभागं कुर्वतैव द्रव्यादेरुद्देशः कृतः । ततो यथोद्देशलक्षणमाह-तत्रेति । यद्यपि तत्रेत्यनुक्तावपि द्रव्यलक्षणं न दुष्यति, अव्याप्त्यभावात् । तथापीतरेषां द्रव्याश्रितत्वेन द्रव्यस्य प्राधान्यद्योतनार्थं तत्रेत्युक्तम् । यद्यपि प्रथमं द्रव्यनामग्रहणेन तस्य प्राधान्यं द्योतितम्, तथापि तेनैकान्तिकम्, 'प्रमाणप्रमेय ० ' इत्यादिसूत्रे प्रमेयं प्रति गुणभूतस्य प्रमाणस्य प्रथमं ग्रहणात् । कार्यस्य समवायो भवन् यत्रैव भवति तत्समवायिकारणम्, तद्द्रव्यम् । एतेनोत्पन्नमात्रे द्रव्ये कार्यकारणयोर्नियतपूर्वोत्तरक्षणवर्तित्वात्कार्यसमवायाभावेनाव्यात्याशङ्का निरस्ता - । न च गुणादेरपि संख्यागुणसमवायिकारणत्वादतिव्याप्तिः, उभयसम्प्रतिपत्त्यभावात् । न चाबाधिततद्व्यवहारेण सम्प्रतिपत्तिः, दूषणवादिनो वेदान्त्यादेरपि तत्प्रसङ्गेन द्वैतापातात् । अत्र च निमित्तासमवायिकारणर्गुणादिव्यवच्छेदार्थं समवायिपदम् । परकीयलक्षणे दूषणानुसन्धानेन स्वलक्षणे सम्प्रतिपत्तिं सम्पाद्यैव व्यवच्छेदक्रमो द्रष्टव्यः । यथा स्वतन्त्रं द्रव्यमिति द्रव्यलक्षणे स्वातंत्र्यमनाश्रयत्वं चेत्कार्यद्रव्येऽव्याप्तिः । आश्रयोपलम्भ निरपेक्षोपलम्भश्चेद्गन्धादावतिव्याप्तिरिति दूंषिते समवायिकारैणं द्रव्यमिति लक्षणे सम्प्रतिपत्त्यापादनम् । एतेन गुणाश्रयो द्रव्यमित्यैपि लक्षणं निर्दुष्टतया व्याख्यातम् ।
[वा. टी.] समवायिकारणमित्यत्र खसमवेतकार्योत्पादकमिति विवक्षितम् । तेन समवायि च तत्कारणं च समवायिनः कारणं समवायिकारणमिति विकल्पाभ्यां यातिव्याप्तिस्सा परिहृता भवति ।
*
( पृथिवीलक्षणं तद्विभागश्च )
तत्र गन्धवती पृथिवी । सा द्वेधा, पृथिव्यादिभेदेन ।
[ब. टी.] गन्धवतीति। यद्यपि प्रथमे क्षणे गन्धो नास्तीत्यव्याप्तिः, तथापि गन्धात्यन्ताभावविरोधिमत्वं विवक्षितम् । स च विरोधी गन्धतत्प्रागभावतत्प्रध्वंसरूपः । तदन्यतमत्वं च न गन्धात्यन्ताभाव इति नातिव्याप्तिः । यद्वा गन्धात्यन्ताभावानधिकरणमेव लक्षणम् । न च गन्धात्यन्ताभावेऽतिव्याप्तिः, गन्धात्यन्ताभावे गन्धो नास्तीति प्रतीतिबलेन गन्धात्यन्ताभावे गन्धात्यन्ताभावस्य सत्वात् । अन्यथा तत्र गन्धतत्प्रागभावादिवर्तेत । यत्र यदत्यन्ताभावो नास्ति तत्र तद्विरोध्यस्ति इत्यतिव्याप्तिः । स च गन्धात्यन्ताभावे गन्धात्यन्ताभावोऽधिकरणस्वरूपो वा, वैधर्म्यं वा अभावान्तरमेव वा इत्यन्यदेतदिति दिक् । यद्यपि सुरभ्यसुरभिकपालारब्धे घटे गन्धतत्प्रागभावतत्प्रध्वंसा न सन्ति, तथापि गन्धयोग्यता विवक्षिता, सा च पृथिवीत्वमेव ।
१ अथो इति ट. २ तन्नैकमिति झ. ३ प्रमाणस्येति नास्ति झ. ४ तत उत्पन्नेति जं. 2. ५ द्वैतवादादिति ज ट. ६ गुणेनेति झ. ७ प्रतिपाद्यैवेति ट, सम्भाव्यैवेति ज. ८ द्रव्येति नास्ति ज. ट. ९ द्रव्येष्विति जट. १० दृषयतीति ट. ११ कारणलक्षण इति १२ अपीति नास्ति ज. ट. १३ स्वरूप इति च.