Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १, ८.९. १०. ११.] ॥ फिटसूचाणि ॥ सर्वनामतया स्वाङ्गशिटाम् । २.६.। इत्यायुदात्तः। अर्थान्तरे तु लघावन्ते । २. १९.। इति गुरुग्दात्तः । दक्षिण : सरलोदारपरच्छन्दानुवर्तिष्विति कोशः॥ ल° श° ॥ दक्षिणस्य साधाविति। प्रवीण इत्यर्थः । वीणायां सामसु वा दक्षिण इत्युदाहरणम् । प्रवीण इत्यर्थः॥ फि० वृ०॥ दक्षिणशब्दस्य साधौ प्रावीण्यार्थे ऽन्त उदात्तो भवति । वीणायां दक्षिण : । सामसु दक्षिणः। साधाविति किम् । दक्षिणो देशः॥. स्वाङ्गाख्यायामादिवा ॥९॥ सि की०॥ इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्ती स्तः। दक्षिणो बाहुः। आख्याग्रहणं किम् । प्रत्यङ्माखमासीनस्य वामपाणिर्दक्षिणो भवति ॥ ल श॥ स्वाङ्गेति किम् । दक्षिणो देशः । अत्र सर्वनामवादाबुदा त्तत्वम् । न च परत्वादेव तेनायुदात्तत्वमत्र भविष्यतीति वाच्यमस्य प्रकरणस्य वाधकवाधनार्थत्वात् ॥ फि वृ०॥ स्वमङ्गं स्वाङ्गम् । तस्याख्यायां दक्षिणशब्दस्यादितदात्तो भवति। अन्तो वा । पाणिर्दक्षिणः । कर्णो दक्षिणः। आधुदात्तः। स्वाङ्गाख्यायामिति किम् । दक्षिणो देशः। आख्याग्रहणं किम्। प्रत्यङ्मखमासीनस्य सव्यपाणिर्दक्षिणो भवति॥ छन्दसि च ॥ १०॥ सिकौ ॥ अस्वाङ्गार्थमिदम् । दक्षिणः । इह पर्यायेणाद्यन्तावुदात्ती॥ फि० वृ०॥ छन्दसि विषये दक्षिणस्यादिरुदात्तो भवति । अन्तो वा। दक्षिणो रथवाहनः ॥ कृष्णस्यामृगाख्या चेत् ॥ ११॥ सि. की ॥ अन्त उदात्तः । वर्णानां तण । २. १०. । इत्यायुदात्ते प्राप्त ऽन्तोदात्तो विधीयते। कृष्णानां ब्रीहीणाम्। कृष्णो नोनाव वृषभः। ऋ० १. ७९. २. । मृगाख्यायां तु। कृष्णो रात्र्यै। वा० सं० २४.३६.॥ लश ॥ अत्र च्छन्दसीति वर्तत इत्याहुः। अन्तोदान इत्येव। पाख्येति किम् । छष्णो मृगः॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102