Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ फिटसूत्राणि ॥ [४,९. १०. ११. १२. विल्वभक्ष्यवीयर्याणि छन्दसि ॥ ९ ॥ सि को ॥ अन्तस्वरितानि ॥ ल° श॥ भाषायां तु भक्ष्यवीर्यावाबुदात्तौ। वीरेषु साधुरिति यत् ।
भक्षयतेय॑न्तादचो यत् । पा. ३. १.९७. । विल्वः स्वरि
तान्तो ऽन्तोदात्तो वा। केचित्तु विल्ववस्तेति पठन्ति ॥ फि० वृ०॥ विल्ववस्तवीर्याणामन्तश्छन्दसि ॥
विल्वादीनां छन्दस्यन्तः स्वरितो भवति । विल्वः वस्त्रं वीर्यम् ॥
त्वत्वसमसिमेत्यनुच्चानि ॥१०॥ सि को ॥ स्तरीरु त्वत्। ऋ० वे० ७.१०१.३.। उत त्वः पश्यन्। ऋ वे०१०.
७१.४.। नभन्तामन्यके समे। ऋ वे०८.३९.१.। सिमस्मै ॥ ल. श०॥ सर्वानुदात्तानीत्यर्थः । अत्र सूत्रे छन्दसीति नानुवर्तत आ
युदात्तश्च । पा. ३. १. ३. । इति सूत्रस्थभाष्यप्रामाण्यात् ॥ फि° वृ॥ अस्यास्मैनत्वसमसिमेत्येतान्यनुच्चानि ॥
अस्य । अस्म । एन । त्व। सम । सिम। इत्येतानि छन्दस्यनुच्चानि भवन्ति । अस्य च्छात्रेभ्यो रात्रिरधीता। अथास्मै । अथो अस्मात् । एन । अोदनमेतं भोजय । अथो एनं पायय। अथो एनेन। त्वः। उत खः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम उतो त्वस्मै तन्वं वि सने जायेव पत्य उशती सुवासाः। ऋ० वे० १०. ७१.४.। सम। समस्मै समस्मात् समस्मिन् । सिम । सिमस्मै सिमस्मात् सिमस्मिन् ॥
सिमस्याथर्वणे ऽन्त उदातः ॥११॥ सि. कौ ॥ आथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवं परं वा । तेन ।
वासस्तनुते सिमस्मै । ऋ वे० १. ११५. ४. । इत्युग्वेदे ऽपि
भवत्येव ॥ फि० वृ०॥ सिमस्याथर्वणवेदे ऽन्त उदात्तो भवति । सिम ॥
निपाता आधुदाताः ॥ १२ ॥ सिकौ ॥ स्वाहा॥
For Private And Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102