Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२, २२.२३. २४.] ॥ फिटसूत्राणि ॥ लश ॥ ऋतुवाचिनां प्राणिवाचिनां चेत्यर्थः । वसन्त इत्यादि। अन
योर्लघावन्ते । २. १९.। इति निषिद्धे ऽन्तोदात्तत्वम् । एवं च कपोतमयूरशब्दो लघावन्त इति मध्योदात्ताविति प्राणिरजतादिसूत्रस्थ हरदत्तश्चिन्त्यः खण्डिकादिसूत्र उलूको
मध्योदात्त इति कैयटश्च ॥ फि° वृ०॥ ऋतूनां प्राण्याख्यायां च लघावन्ते वयोश्च बहशो गुरुरु
दात्तो न भवति। [हेमन्त ः वसन्तः । प्राणाख्यायाम् । जीवनम् । ऋतुप्राणाख्यानामिति किम् । तुषारः। ॥
धान्यानां च वृद्धक्षान्तानाम् ॥ २३ ॥ सि को० ॥ आदिकदात्तः । कान्तानाम् । श्यामाकाः । षान्तानाम् ।
माषा: ॥ ल० श. . वृद्धसंज्ञकधान्यवाचिककारषकारान्तानामित्यर्थः। श्यामाका
इति । उशीरदाशेरकपालपलालशैवालश्यामाक । ३. १८. । इति सूत्रे श्यामाकग्रहणं वधान्यवाचकश्यामाकग्रहणार्थम्। अत एव श्यामाकायतीत्यर्थे ऽपि श्यामाकशब्द आद्युदात्त इत्याहुः । माषा इत्यस्य तृणधान्यानां च । २. ४. । इत्यत्रोदाहृतत्वाद्वालाक्षा इत्युदाहरणमुचितम्। हलन्तानामसंभवे नाकारविशिष्टस्य ग्रहणम् । धान्येति किम् । आलोकः ।
वृद्धेति किम् । चणकाः। क्षेति किम् । गोधूमाः॥ फि° वृ०॥ [धान्यानां वृद्धक्षान्तानाम् ॥
धान्यानां वृद्धककारषकारान्तानां यो यो गुरुः स उदात्तो भवति। नैषाहताः कापूर्वकाः वलाक्षाः । धान्यानामिति किम् । श्यामाकाः सूदक्षाः । वृद्धक्षान्तानामिति किम् । गोधूमाः॥
जनपदशब्दानामषन्तानाम् ॥२४॥ सि. कौ॥ केकयाः॥ .ल. श॥ अषित्यचः संज्ञा। केकया इति । यत्तु यान्तस्यान्त्यात्पूर्वम् ।
३. १३. । इत्यनेन परत्वादत्र भाव्यमिति तन्न वाध्यसामान्यचिन्तामाश्रित्य तस्याप्यनेन वाधादित्याहुः। अशा वना
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102