Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
॥ फिटसूत्राणि ॥ [२, २०.२१.२२. लघावन्ते । २. १९. । इति मध्योदात्ता इति कैयटादिदर्शनादिदं वाधित्वा पूर्वविप्रतिषेधेन पूर्वमेव प्रवर्तत इत्याहुः। अक्षुशब्दात्पूर्व इति । अक्ष्वादेरिति वक्तव्ये ऽक्षुपूर्वाणामित्युक्तेः समानाधिकरणो बहुव्रीहिर्नेति भावः । अक्षुपूर्वेत्यत्र पञ्चमीतत्पुरुषस्तु नाक्षावित्येव सिद्धे पूर्वग्रहणवैयर्थापत्तर
नुवर्तमानफिष इत्यनेनान्वयानापत्तेश्च ॥ फि० १० ॥ स्त्रीविषयवर्णनानामापूर्वाणाम् ॥
स्त्रीविषयाणां च वर्णनाम्नां चाक्षुपूर्वाणां च । अक्षुशब्दः पूर्वो येषां तेषाम् । लघावन्ते वयोश्च बहूशो यो गुरुः स उदात्तो भवति। स्त्रीविषयाणां तावत् । अराराका अटाटाका मल्लिका कृकाटिका पिपीलिका पिप्पलिका । वर्णनानाम् । पिशङ्गः कल्माषः। अक्षुपूर्वाणाम् । तरतुः ललक्षुः वलक्षुः । बहश इत्येव । माला॥
शकुनीनां च लघु पूर्वम् ॥ २१ ॥ सि को ॥ पूर्व लघूदात्तं स्यात् । कुक्कुटः तित्तिरिः॥ लश ॥ पूर्वमिति। अन्त्यात्पूर्वमित्यर्थः । लघु पूर्वमित्वसमस्तं पदव
यम्। अत्राप्यादिरिति न संबध्यते पूर्वग्रहणात् । तेन कुक्कुटतित्तिरी मध्योदात्तौ। कुक्कुटस्य वेदे ऽन्तोदात्तपाठस्तु छान्दसः । तित्तिरियजुःशाखायां मध्योदात्तः पद्यते । एतेन तित्तिरिशब्दोऽन्तोदात्त इति प्राणिरजतादिसूत्रस्थहरदत्तः परास्तः । लघुपूर्वमिति बहुव्रीहिस्तु न लघोरिति पञ्चमीनिर्देशेनैव सिद्धे पूर्वग्रहणवैयापत्तेः। लघोः पूर्वमि
ति तत्पुरुषोऽपि न सप्तमीनिर्देशेनैव सिद्धेः ॥ फि° वृ०॥ शकुनीनां च लघुपूर्वाणाम् ॥
लघुः पूर्वो येषां शकुनिवाचिनां लघावन्ते वयोश्च बहशो गुरुरुदात्तो भवति । कवाकुः कपोतः। शकुनीनामिति किम् । ककलासः वराहः । लघुपूर्वाणामिति किम् । कुक्कुटः तित्तिरिः खञ्जरीटः॥
नप्राण्याख्यायाम् ॥ २२॥ . सि को ॥ यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः कलासः ॥
For Private And Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102