Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ फिटसूत्राणि ॥ [३, ४. ५.६. लश ॥ मलये यान्तस्यान्त्यात्पूर्वम् । ३. १३. । इत्यस्यास्य वा प्रवृत्ती
फले न विशेष इत्युदाहृतम् । मकरः संज्ञाभूत उदाहरणं मकरवरूद्ध । ३.८. । इत्यत्र खभिव्यक्तपदार्था य इति न्यायेन संज्ञाभूतस्य न ग्रहणम् । क्वचित्तु माकर इति पाठः।
तत्र स्वार्थे ऽण् ॥ फि° वृ०॥ मादीनाम् ॥
मकारादीनां च यशां द्वितीयमुदात्तं भवति। महेन्द्रः मल्लिका मक्षिका मशकाः मगधाः [मगधः मलयः मूलकम् । मकारादीनामिति किम् । सूकरः शल्लकः] ॥
शादीनां शाकानाम् ॥५॥ सिकौ०॥ शीतन्या शतपुष्पा ॥ लश॥ शादीनां च शाकानाम्। संप्रोदश्च । पा० ५. २. २९. । इति
सूत्रे कैयटे तु दन्त्यादिपाठ इदं चायुदात्तविधायकम् । अनेन शर्षपशब्द आबुदात्तवे प्राप्ते पान्तानां च गुर्वादीनाम् । ३.६.। इति मध्योदात्तत्वमित्युक्तम। तेन द्वितीयपादान्त इदं सूत्रमिति ध्वनितम् । फिछ्त्ती तु तालव्यादि सूत्रमत्र पादे पठितम् । शतपुष्पति क्वाचित्को पपाठस्त्यच्वाभावात् । कैयटादिरीत्या आद्युदात्तविधायकत्वे तु तत्रापि प्रवृत्तिरिति ध्वनयितुमयजप्युदाहृतमित्याहुः । के
चित्तु व्यच्पदस्यैकाज्वच्कमेव व्यावर्त्य वदन्ति ॥ फि० वृ०॥ शादीनां शाकानाम् । शाकवाचिनां शब्दानां सकारा
दीनां द्वितीयमुदात्तं भवति । सुवर्चलाः सर्षपाः सस्फुटाः। शादीनामिति किम् । मूलकम् । शाकानामिति किम् । सूकरः शल्लकी॥
पान्तानां गुवादीनाम् ॥६॥ सि की॥ पादपः आतपः। लघुादीनां तु। अनूपम् । यचां तु। नीपम् ॥ ल श॥ पान्तानां किम् । गर्दभः । लघावन्ते । २. १९. । इत्याधु
दात्तो ऽयम् । न गर्दभं पुरः । ऋ० वे० ३. ५३. २३. । इत्यन्तोदात्तत्वं तु छान्दसम् । गुादीनां किम् । कुणपः। क्वणेः संप्रसारणं च । उ० ३.१४३. । इति कपन् ॥
For Private And Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102