Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ फिटसूत्राणि ॥ [३, १६.१७. १८.१९. न्यसाङ्काश्यकाम्पिल्यनासिक्यदााघाटानामादिन्तिो वेति कैयटेनोक्तम् । अत्रान्तशब्देनादेरपेक्षयान्तो द्वितीय एव । अतो न विरोधः। एवं सप्तमी सिद्ध । पा.६.२. ३२. । इति सूत्र एषामन्तः पूर्व वेति काशिकायामपि पूर्वशब्देनादिस्तदपेक्षयान्तश्चान्तशब्देन गृह्यत इति बोध्यम्। अन्त्यात्पूर्वमिति तु नानुवर्तते साङ्काश्यादीनां त्रयाणां ग्रहणस्य वैयापत्तेयन्तिस्यान्त्यात् । ३. १३. । इत्येव सिद्धेः । उत्तरसूत्र आदि ति तु स्पष्टार्थम् ॥ फि° वृ०॥ साङ्काश्यकाम्पिल्यनासिक्यदावीघाटानां वा॥ साङ्काश्यादीनां वान्त्यात्पूर्वमुदात्तं भवति । साङ्काश्यं काम्पिल्यं नासिक्यं दावीघाटः॥ ईषान्तस्य हयादेरादिवा ॥ १७ ॥ सि. कौ ॥ हलीषा लागलीषा॥ लश ॥ हयिति हलां संज्ञा। पक्षे ऽधिकाराद्वितीयम् । ईषान्तस्य किम् । मञ्जूषा । हलादेः किम् । अम्बरीषम् ॥ फि. वृ०॥ ईषशब्दान्तस्य हलादेरादिवोदात्तो भवति। करीषं शि रीषः। ईषान्तस्येति किम् । गण्डूषा । हलादेरिति किम् । ऋजीषम् अम्बरीषम् ॥ उशीरदाशेरकपालपलालशैवालश्यामाकशरीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम् ॥ १८ ॥ सि को ॥ एषामादिरुदात्तः स्यात् ॥ ल° श॥ अत्र हृदयग्रहणं स्वाङ्गानामकुर्वादीनाम् । ३. ३. । इति द्वितीयोदात्तत्वं वाधितुम । देवरग्रहणं लघावन्ते ।२.१९. । इत्यस्यानियत्वज्ञापनार्थम् । केचित्तु घृतादिषु। १. २२. । देवरशब्दः पद्यत एवं च पक्ष आद्युदात्तार्थ ग्रहणमित्याहुः । अत्र वेति नानुवर्तत इति केचित् ॥ फि° वृ०॥ उशीरदाशेरकपलालशैवालश्यामाकशरीरश रावहृदयहिरण्यारण्यापत्यदेवराणाम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102