Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ फिटसूत्राणि ॥ . [२, १. २. ३. ४. अथादिः प्राक् शकटेः॥१॥ सि. कौ ॥ अधिकारो ऽयं शकटिशकव्योर् । ४. १. । इति यावत् ॥ फि वृ०॥ अथेत्ययमधिकारद्योतकः । आदिरुदात्तो भवतीत्यधिक्रि
यते प्राक् शकटेर्यदित ऊर्ध्वमनुक्रमिष्यामः ॥
हस्वान्तस्य स्त्रीविषयस्य ॥ २ ॥ सि. कौ ॥ आदिरुदात्तः स्यात् । वलिः तनु :॥ ल° श॥ हस्तान्तस्य स्त्रीविषयस्य नित्यस्त्रीलिङ्गस्येत्यर्थः । वलिरिति।
वलिशब्दोऽपि जरया श्लथचर्मणि तनुश्च शरीरे नित्यस्त्रीलिङ्गः। हस्खेति किम् । नदी। स्त्रीति किम् । मरुः वायुः।
विषयेति किम् । लघुः बहुः ॥ फि० वृ०॥ हस्तान्तस्य स्त्रीविषयस्यादिरुदात्तो भवति । दितिः अदि
तिः वलिः वेदिः भूमिः । ह्रस्वान्तस्येति किम् । नदी वधः दृषत समित् । स्त्रीविषयस्येति किम् । आम्रः वायुः अग्निः विषः । विषयग्रहणं किम् । लघुः बहुः ॥
नविषयस्यानिसन्तस्य ॥ ३॥ सिकौ ॥ वने न वा यः। ऋ० वे० १०. २९. १. । इसन्तस्य तु । सर्पिः।
नब् नपुंसकम् ॥ ल° श०॥ नपो ऽनिसन्तस्येति पाठेन विषयपदानुवृत्यैव सिद्धे पुन
विषयपदं लिङ्गव्यत्ययप्रत्ययलोपान्यतरेण लिङ्गान्तरोपसंक्रान्तस्य वा विषयतामात्रेणैतत्प्रवृत्त्यर्थम्। यथा मधोस्तुप्ता इवासत इत्यादौ यथा वा मध्वस्मिन्नस्ति मधुर्मासो मधोर्ज च। पा० ४. ४. १२९. । इति यतो लुग्वार्त्तिकेन । ध्वनितं चेदमी च द्विवचने । पा० ७. १. ७७. । इति सूत्रे भाष्ये । नबिति किम् । मूर्तः । सपिरिति। इसिनन्तज्योतिःशब्दादो।
उ० २. १११.। तु नित्त्वादाद्युदात्तत्वमेव। पा. ६. १. १९७.॥ फि• वृ. ॥ नबिति नपुंसकम् । इसन्तवर्जितस्य नपुंसकस्यादिरुदात्तो भ
वति। कुण्डं वृत्तं वनं पयः यशः सरः शिरः। अनिसन्तस्येति किम् । सर्पिः हविः बर्हिः। नविषयस्येति किम् । आम्रः ॥
तणधान्यानां च यषाम् ॥४॥ सि. कौ ॥ यचामित्यर्थः । कुशाः काशाः माषाः तिलाः। बहुचां तु।
गोधमाः ॥
For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102