Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २, ७. ८.९. १०.] ॥ फिटसूत्राणि ॥ १३ कोकः वकः। प्राणिमामिति किम। उदकम् । कुपूर्वाणामिति किम् । वराहः॥ खय्युवर्ण कृषिमाख्या चेत् ॥८॥ सि को ॥ खयि पर उवर्णमुदात्तं स्यात् । कन्दुकः॥ ल° श॥ कृत्रिमेत्यादि किम् । बन्धुकः ॥ फि° वृ०॥ उवन्तं सविपूर्वस्य कृत्रिमाख्या चेत् ॥ उवन्तमुवान्तं यदक्षरं सविपूर्वस्यादिरुदात्तो भवति । कृत्रिमाख्या चेत्। कूपः सूपः यूपः धूपः कूटः चटः स्फुटः। उवन्तमिति किम् । घटः । सविपूर्वस्येति किम् । युद्धः । कृत्रिमाख्या चेदिति किम् । क्षुवः ॥ उनर्वनन्तानाम् ॥९॥ सिकौ ॥ उन। वरुणं वो रिशादसम् । ऋ०५.६४.१.। ऋ। स्व सारं त्वा कृणवै । ऋ वे० १०.१०८.९.। वन। पीवानं मेषम्। ऋ० १०. २७.१७.॥ ल. श॥ पिता माता भ्रातर एनमाहुः । ऋ० वे० १०. ३४. ४. । इत्यादी पितृशब्दे छान्दसत्वादन्तोदात्तत्वं मातुस्त्वम्बार्थ त्वात्सिद्धम् । १. २. । इत्याहुः ॥ फि• वृ॥ उन। ऋ। वन । इत्येवमन्तानामादिरुदात्तो भवति। उना न्तानाम् । अर्जुनः वरुणः पिशुनः। ऋ । स्वसा नप्ता भ्राता पाता। वन् । सीव पीव ॥ वर्णानां तणतिनितान्तानाम् ॥ १०॥ सि० कौ ॥ आदिरुदात्तः। एतः। हरिणः । शितिः । पृश्निः । हरित ॥ ल° श० ॥ वर्णानां तणतिनितन्तानाम् ॥ तान्तानामिति पाठे वकारो व्यर्थ इति चिन्त्यम् । एत इति। श्वेतशब्दो घृतादित्वादन्तोदात्तो बोध्यः । १. २२. ॥ फि० वृ०॥ वणाना तणानातलगतान वर्णवाचिनां त । ण । नि। ति। त् । इत्येवमन्तानामादिरुदात्तो भवति । तान्तानां । एतः श्वेतः रोहितः लोहितः हरितः । णान्तानाम् । शोणः । मि । पृश्निः । ति । शितिः । त्। पृषत् हरित ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102