Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ल००
॥ फिटसूत्राणि ॥ [१, १९. २०. २१. आशाया अदिगाख्या चेत् ॥ १९ ॥ सिकौ ॥ दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिकपर्याय
स्थायुदात्तता। इन्द्र आशाभ्यस्परि। ऋ० वे० २. ४१. १२. ॥ लश ॥ अत एव ज्ञापकादिति । स्त्रीविषयवर्ण । २. २०. । इति
द्वितीयपादस्थ सूत्रेणेत्यन्ये ॥ फि० ॥ दिश आख्या दिगाख्या । सा चेन्न भवति तदाशाशब्द
स्थान्त उदात्तो भवति। यामाशामधिकाम् । अदिगाख्या चेदिति किम् । आशामाशां विद्योतते। आख्याग्रहणं किम्। आशामेति दक्षिणाम् ॥ ...
नक्षत्राणामाविषयाणाम् ॥ २०॥ सि. कौ ॥ अन्त उदात्तः स्यात् । अश्लेषानुराधादीनां लघावन्ते । २.
१९. । इति प्राप्ते । ज्येष्ठाविष्ठाधनिष्ठानामिष्ठनन्तत्वेनाद्युदात्ते प्राप्ते। पा० ६. १. १९७. । वचनम् ॥ नक्षत्राणामाविषयाणां नित्याबन्तानामित्यर्थः । नक्षत्राणां किम। खट्वा। आबित्यादि किम । अश्विनी। अविष्ठेत्यादि। श्रवतीधनवतीशब्दाभ्यामिष्ठनि विन्मतोर। पा० ५.३.६५.। इति लुक् । विषयग्रहणं चिन्त्यमाबन्तानाबन्तस्य नक्षत्रस्या
सत्त्वात् ॥ फि• वृ॥ आप स्त्रीप्रत्ययो विषयो येषां तेषां नक्षत्रवाचिनामन्त
उदात्तो भवति। ज्येष्ठा श्रविष्ठा आद्री चित्रा मघा आश्लेषा अनुराधा। नक्षत्राणामिति किम । उल्का तारका। आविषयाणामिति किम् । अश्विनी फल्गुन्यः। विषयग्रहणं किम्। आश्लेषास्वित्यत्रापि यथा स्यात् ॥
न कुपूर्वस्य कृतिकाख्या चेत् ॥ २१ ॥ सि को ॥ अन्त उदात्तो न। कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य
आप्तद्विषयाणामिति व्याख्यायार्यिका बहुलिकेत्यत्राप्यन्तो
दात्तो नेत्याहुः॥ लश ॥ कवर्गपूर्वस्याविषयस्य नक्षत्रस्थान्त उदात्तो नेत्यर्थः । कुपूर्व
स्येति किम्। बहुला। आख्येति किम। कृत्तिकासु जाता माणविका कृत्तिका। इत्यत्रापीति। अपिना छत्तिका। आर्यि
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102