Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ फिटसूत्राणि ॥ [१, ११. १२. १३. १४. फि° वृ०॥ छन्दसीति वर्तते । कृष्णशब्दस्य छन्दसि विषये ऽन्त
उदात्तो भवति मृगाख्या चेन्न भवति। कृष्णानां व्रीहीणाम्। कृष्णो नोनाव वृषभो यदीदम। ऋ वे १. ७९.२.। छन्दसीत्येव । कृष्णो वृषभः। अमृगाख्येति किम् । कृष्णो मृगः । आख्याग्रहणं किम् । कृष्णो महिषः ॥
वा नामधेयस्य ॥१२॥ सि कौ ॥ कृष्णस्येत्येव । अयं वां कृष्णो अश्विना। ऋवे. ८. ७४. ३. ।
कृष्ण ऋषिः॥ ल° श॥ अन्तोदात्तत्वं वा। पक्ष द्युदात्तत्वम् ॥ फि• वृ०॥ कृष्णस्य नामधेयस्य वान्त उदात्तो भवति । कृष्णो ना
मायम् ॥
शुक्लगौरयोरादिः ॥ १३ ॥ सि को ॥ नित्यमुदात्तः स्यादित्येके। वेत्यनुवर्तत इति तु युक्तम् । सरो
गौरो यथा पिब । ऋ वे० ८.४५. २४. । इत्यवान्तोदात्तद
र्शनात् ॥ लश ॥ नामधेयस्येति वर्तते । तेनानामधेययोरन्तोदात्तत्वमेव ऋ
जेन्द्र । उ॰ २. २८. । इत्युणादिसूत्रनिपातितान्तोदात्तत्व
कस्य शुक्रशब्दस्य लवे शुक्ल शब्दव्युत्पत्तेरिति बोध्यम् ॥ फि वृ०॥ नामधेयस्येति वर्तते। शुक्ल गौर इत्येतयोनामधेययोर्वादि
रुदात्तो भवति। शुल्लो नामायम् । गौरो नामायम् । नामधेयस्येत्येव । शुक्लः पटः । गौरः पुरुषः॥
अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः ॥१४॥ मि. को ॥ अङ्गुष्ठस्य स्वाङ्गानामकुर्वादीनाम् । ३. ३. । इति द्वितीयस्थो
दात्तवे प्राप्ते ऽन्तोदात्तार्थ आरम्भः। वशाग्रहणं नियमा
र्थम् । छन्दस्येवेति । तेन लोक आद्युदात्ततेत्याहुः ॥ ल' शअन्त इति वादिग्रहणानुवृत्तिशङ्कानिवारणार्थम् । उदकस्य
कर्दमादित्वादाद्यद्वितीययोः । ३. १०. । पर्यायेण प्राप्ते। वकस्य प्राणिनां च कुपूर्वाणाम्।२.७.। इत्याद्युदात्तत्वे प्राप्ते। तेन लोक इति। नियमकरणसामादिति भावः । वशाशब्दश्च वशेः पचाद्यचि टापीति तात्पर्यम् ॥
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102