Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ "प्रथमं तावद् वयं सम्पदः समुपार्जनेऽतिरक्ता: स्वास्थ्यमपि न परिगणयामः । भूरि श्रमं कुर्महे, यथेच्छं सम्पदः प्राप्तिमपि (कदाचित्) कुर्महे, तदनु तस्याः संरक्षणमपि RO कुर्महे । परं तत्पश्चात् (स्वास्थ्यं विना सम्पद उपभोगोऽशक्य इत्यवबुध्य) पुनः स्वास्थ्यं KC प्राप्तुं (तुच्छमिव मत्वा) धनव्ययं कुर्महे । किन्त्वन्ततो गत्वा चितां विहाय किमप्यन्यद् | न लभामहे ।" | कस्याऽपि सुखसाधनादिकस्य प्रापणं तु नाऽपराधः । मनुष्यो यत्नेन श्रमेण वा | किमप्यर्जयतु नाम, न तत्र काऽप्यापत्ति: । किन्तु विवेकं परित्यज्य लोभाविष्ट आसक्तश्च सन् स किमपि प्राप्तुं प्रयतते तदा तस्याऽपराधो जायते- जीवनं प्रति स्वात्मानं च प्रति कृतोऽपराधः । आवश्यकताया इच्छायाश्च मध्ये भेदस्य बोधो नाम विवेकः । अत्र श्लोके कृतो व्यङ्ग एतादृशं भेदमनवबुध्य प्रवृत्तान् जनान् प्रत्यस्ति । आवश्यकतापूर्तये कृताः प्रयत्नाः सफला भवन्ति, न किन्त्विच्छापूर्तये कृताः प्रयत्नाः । सम्राट्सकन्दर इतिहासप्रसिद्धः पात्रमस्ति । विश्वविजयो न तस्याऽऽवश्यकताऽपि त्विच्छाऽऽसीत् । किन्तु न सा पूर्णा जाता। लघुवयस्येव स दिवङ्गतः । यदा तेन सत्यमवगतं तदा तस्य कालः सन्निहित आसीत । अतः स सचितवान- 'मम मरणानन्तरं यदा शवाच्छादनं करणीयं स्यात तदा मम हस्तौ न बन्धनीयौ नाऽप्याच्छादनीयौ। एवमेवाऽनवबद्धहस्तस्याऽनाच्छादितहस्तस्य चैव ममाऽन्तिमयात्रा भवतु, येन सर्वेऽपि जानन्तु नाम यत् किमपि भूरिश्रमेणाऽप्यजितमपि न कस्याऽप्यनुगच्छति, न च कस्याऽपीच्छा कदाऽपि परितृप्ता परिपूर्णा वा भवति' इति । बहुशो मनुष्यो यत् सङ्घर्षरतो दृश्यते तन्नाऽऽवश्यकतापूर्तये किन्त्विच्छायाः परिपूर्तये एव सङ्घर्षः सम्प्रवर्तते । यश्च नाऽऽजीवनं समाप्ति गच्छति । दारिद्यं न साधन सम्पदादीनामभावमवलम्बते किन्तु मनोवृत्तिमवलम्बते – ‘स हि भवति दरिद्रो यस्य तृष्णा bp विशाला' । एतादृशो जनो दीन एव भवति । न स जीवनस्याऽऽनन्दमनुभवितुं शक्नोति ।। सर्वं सत्यपि स रिक्ततामेवाऽनुभवति । स स्वयं सर्वत्राऽनुकूलो भवितुं न यततेऽपि तु र (सर्वमपि स्वस्याऽनुकूलं यथा स्यात् तथा प्रयतते । यच्च न शक्यमेव । एतेन चर) | सर्वदाऽसन्तुष्टचित्तः स सदा दीनमिवैवाऽवतिष्ठते । । अत्र हरिणा दृष्टान्तत्वेन गृहीताः । यतस्ते वनवासिनः । मनुष्यस्य सम्पर्कस्तु तेषामद्याऽपि न जातः । प्रायश एवं दृश्यते यद् मनुष्यस्य सम्पर्के यः कोऽपि प्राण्यागतश्चेत् १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138