Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
• अज्ञानग्रस्तोऽयं भारतीयसमाजो, भविष्यति भवदधमर्णः । कियत्य एव दुःखदैन्यव्यथासागरनिमग्नाः कृष्णाः समुद्धृता भविष्यन्ति । वैधव्यमात्रं न भवति विधवाया नियतिः । तन्नियतिस्तु तत्सौभाग्यम् । तत्सौभाग्यसम्पादनायैव संरक्षकैः, स्वजनैः, कुटुम्बिभिर्लोकैश्च प्रयतनीयम् ।
एवंवादिनि महेश्वरानन्दे तूष्णीमुपगत एव पितामहः शान्तभावेन निजासनादुत्थाय तच्चरण- द्वयं स्वललाटेन स्पृष्टवान् प्रोवाच च
गुरुवर्य ! नेदानीं क्वचिदन्यत्र गन्तव्यम् । कृष्णायाः सोमेन्द्रस्य च विवाहसंस्कारपूर्तिं यावदत्रैव भवद्भिः स्थातव्यम् । बिभेमि, पार्थ इव क्वचिन्मध्येमार्गं भूयोऽपि मोहविद्धो न भवेयम् ।
Jain Education International
विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः । आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥ [सुभाषितरत्नभाण्डागारे ]
१०७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138