Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ਆਰਆਆਆਆਆਆਆਆ
ਆਆਬਾਦੀ
पुरोहितः (विचार्य) यदि तावदेवं क्रियताम् । राजा अनुशास्तु मां भवान् । पुरोहितः अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यते चेत्त्वं साधुभिरादिष्टपूर्वः
प्रथमं चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति,
तदभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव । राजा यथा गुरुभ्यो रोचते । पुरोहितः वत्से ! मामनुगच्छ । सउन्दला भअवदि वसुहे ! देहि मे विवरं । (इदि रुददी पत्थिदा ।)
(नेपथ्ये) आश्चर्यमाश्चर्यम् । राजा (आकर्ण्य) किं नु खलु स्यात् ? पुरोहितः (प्रविश्य सविस्मयम्) देव ! अद्भुतं खलु संवृत्तम् । राजा किमिव ? पुरोहितः देव ! परावृत्तेषु कण्वशिष्येषु
सा निन्दन्ती स्वानि भाग्यानि बाला, बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।
स्त्रीसंस्थानं चात्सरस्तीर्थमारा-दुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥ राजा भगवन् ! प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणाऽन्विष्यते, विश्राम्यतु
भवान् । (प्रतीहारो प्रति) वेत्रवति ! पर्याकुलोऽस्मि, शयनभूमिमार्गमादेशय । प्रतीहारी इदो, इदो देव ! (इदि पत्थिदा ।)
रक्खिणौ (ताडिअ) अले कुम्भीलआ, कहेहि कहिं तुए एशे मणिबन्धणुक्किणणामहेए लाअकीअए
अंगुलीअए समासादिए ? पुरुसो (समय) पसीदन्तु भावमिश्शे । हगे ण ईदिशकम्मकाली । पढमो किं शोहणो बम्हणेत्ति कलिअ रण्णा पडिग्गहो दिण्णो ? पुरुसो शुणध दाणिं । हगे सक्कावदारब्भंतरालवासी धीवलो ।
१२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 133 134 135 136 137 138