Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 138
________________ iniiniinio कार्यनिवृत्तिः एकदैकस्मिन् महानगरे नगरस्थितानां सर्वेषां देवालयानां सर्वैरपि देवार्चकैः सम्भूय वेतनवृद्ध्यर्थं कार्यनिवृत्तिरुद्धोषिता / देवालयानां कार्यवाहका वेतनवृद्ध्यर्थं सम्मता नाऽऽसन् / / अतस्तैर्न किमपि कथितं प्रतिकृतं वा / किन्तु देवार्चका हि वेतनवृद्ध्यै कृतनिश्चया आसन, अतस्तेषु न कोऽपि देवालयेषु पूजार्थमन्यकार्यार्थं वा गच्छति स्म / तेन सर्वेऽपि देवालया पूजोपासनारहिता शून्या इव प्रतिभान्ति स्म।। अनया परिस्थित्या खिन्ना भक्तजना देवालयकार्यवाहके भ्यो विज्ञप्तवन्तो यत्, “कृपया सर्वेषामप्येतेषां वेतनवृद्धिं कुर्वन्तु / यावदप्यधिकं धनं दातव्यं स्याद् तावत् वयमेव दास्यामः / / देवालयानामियं परिस्थितिररमाभिर्विलोकयितुं न पार्यते' इति / श्रुत्वैतत् कार्यवाहकानां मनस्यपि तदेवोचिततया प्रतिभातम् / तैरपि परस्परं विमर्श कृत्वाऽर्चकानां वेतनवृद्धेरपेक्षा स्वीकृता, तेषामिच्छानुसारं च वेतनवृद्धिः कृताऽपि / एतज्ज्ञात्वा सर्वेऽपि देवार्चका 'विजयिनो वय’मिति मन्यमानाः सोत्साहं स्वस्वदेवालयेषु कार्यार्थं संलग्ना जाताः / भक्तजना अपि प्रसन्ना जाताः।। किन्तु, सर्वमप्येतत् प्रवृत्तं दृष्ट्वा सर्वेषामपि देवानां देवीनां च महान् खेदो जातः / ते सर्वेऽपि सम्भूताः परस्परं विमर्शार्थम् / बहु विचार्य च तैरपि कार्यनिवृत्तिसङ्केतः उद्घोषितोऽस्ति / / अस्या घटनाया शताब्यो व्यतीताः सन्ति किन्तु महानगरस्य नाऽन्यतमोऽपि जन एतज्जानाति / एषा कार्यनिवृत्तिरद्याऽपि वरीवर्ति // (सौजन्यं - 'कुमार' पत्रिका) * Strike international For Private & Personal Use Only LADOORDAN Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138